SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नाट्यवर्गः चतुर्विधमिदं वाद्य वादित्रातोद्यनामकम् ॥ मृदंगा मुरजा भेदास्त्वंक्यालिंग्योकास्त्रयः॥५॥ स्याद्यशःपटहो ढक्का भेरी स्त्री दुंदुभिः पुमान् ॥ आनकः पटहो ऽस्त्री स्यात्कोणो वीणादिवादनम् ॥ ६ ॥ वीणादंडः प्रवालः स्यात्ककुभस्तु प्रसेवकः॥ कोलंबकस्तु कायो ऽस्या उपनाहो निबंधनम् ॥७॥ वाद्यप्रभेदा डमरुमड्डडिंडिमझर्झराः॥ इदं ततादिकं चतुर्विधं वाद्यं वादिनातोद्यनामकम् । वादित्रं आतोयं च नाम यस्य तत् । यदाह भरतः । ततं चैवावनद्धं च घनं सुषिरमेव च । चतुर्विधं तु विज्ञेयमातोचं लक्षणान्वितमिति । मृदंगाः मुरजाः "मुरात् वेष्टनाज्जाताः" द्वे मृदंगस्य । बहुविधत्वाद्वहुवचनम् । अंक्यः आलिंग्यः ऊर्ध्वकः । “निर्वकारमपि ।" एते त्रयः मृदंगस्य भेदाः । अंक एव निधाय वादनादंक्यः । आलिंग्य वादनादालिंग्यः। ऊर्वीकृतेन मुखेन वादनादूर्ध्वकः । किंच । हरीतक्याकृतिस्त्वंक्यो यवमध्यस्तथो कः । आलिंग्यश्चैव गोपुच्छसमानः परिकीर्तित इति ॥५॥ यशसे य आदौ पटहो वाद्यते स यशःपटहः । स एव ढकेत्युच्यते । द्वे ढकायाः । भेरी “भरिः" दुंदुभिः । दुंदु इति शब्देन भाति । द्वे दुंदुभेः । “भर्यामानकदुंदुभीत्यपि पाठः ।" आनकः पटहः द्वे पटहस्य । “अस्त्रीति पूर्वान्वयि । पटहो ना समारंभे आनके पुन्नपुंसकमिति मेदिनी ।" वीणादि वाद्यते येन तद्धनुराकृति काष्ठं कोण उच्यते । कोणो वाद्यप्रभेदे स्याद्वीणादीनां च वादने ॥ एकदेशे गृहादीनामले च लगुडेऽपि चेति मेदिनी ॥६॥ वीणाया दंडः प्रवालः एकम् । ककुभः प्रसेवकः द्वे वीणादंडादधो दारुमयं भांडं शब्दगांभीर्यार्थ यञ्चमणाच्छाद्यते तस्य । “वीणाप्रांतस्थव काष्ठविशेषस्येत्यन्ये ।” अस्या वीणायाः कायः तंत्रीरहितो दंडादिसमुदायः कोलंबक इत्युच्यते एकम् । यत्र वीणाप्रांते तंत्र्यो निबध्यते तत् निबंधनं उपनाह इत्युच्यते एकम् ॥७॥ डमरुप्रभृतयो वाद्यविशेषा ज्ञेयाः। तत्र डमरुः कापालिकादीनां वाद्यं । स एव विपुलो मडः । डिंडिमः दंवडी इति प्रसिद्धः । झर्झरः झांगड इति प्रसिद्धः। मर्दलो मृदंगसदृशो वाद्यभेदः । पणवोऽप्येकः । अन्ये च For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy