SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे ॥ कलो मंद्रस्तु गंभीरे तारोत्युच्चैस्त्रयस्त्रिषु ॥२॥ "नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः॥ स मंद्रः कंठमध्यस्थस्तारः शिरसि गीयते॥१॥" समन्वितलयस्त्वेकतालो वीणा तु वल्लकी॥ विपंची सा तु तंत्रीभिः सप्तभिः परिवादिनी ॥३॥ ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् ॥ वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् ॥४॥ तत्र निषादं नर्दति गजाः । ऋषभं गावः । गांधारं अजादयः । षडं मयूराः । मध्यम क्रौंचाः । धैवतमश्वाः । पंचमं कोकिलाः । तदुक्तं नारदेन । षडं रौति मयूरस्तु गावो नर्दति चर्षभम् ॥अजाविकौ तु गांधारं क्रौंचो नर्दति मध्यमम्॥१॥ पुष्पसाधारणे काले कोकिलो रौति पंचमम् ॥ अश्वस्तु धैवतं रौति निषादं रौतिकुंजर इति ॥ २॥ सूक्ष्मे कले काकलीत्येकं स्त्रीलिंगम् ।ईषत् कलः काकली।ईषदर्थे चेति कोः कादेशः।गौरादिः। "काकलिरपि" कलेरिन् । साधूदितं काकलिभिः कुलीनैरिति प्रयोगः । मधुरः श्रुतिसुखः। स चासौअस्फुटो ऽव्यक्ताक्षरः एतादृशे ध्वनौ कल इत्येकम् ।गंभीरे ध्वनी मंद्र इत्येकम् । अत्युच्चै नौ तार इत्येकम् । त्रयः कलमंद्रतारास्त्रिषु ॥ २॥ यः समन्वितलयः सम्यगन्वितो ऽनुगतो लयो गीतादिसाम्यं यत्र स एकताल उच्यते । "एकः समस्तालो मानमस्येत्येकतालः" एकम् । वीणा वल्लकी विपंची त्रयं वी. णायाः। सा वीणा तु सप्तभिस्तंत्रीभिरुपलक्षिता परिवादिनी। सुप्यजाताविति णिनिः। परिवदत्यवश्यम् ॥ ३ ॥ यद्वीणादिकं वाद्यं तत्ततमुच्यते । आदिना सौरंध्रीराव. णहस्तकिन्नर्यादि । हेमचन्द्रकोशेऽपि । शिवस्य वीणा नालंबी सरस्वत्यास्तु कच्छपी। नारदस्थाथ महती गणानां तु प्रभावती ॥ विश्वावसोस्तु बृहती तुंबरोस्तु कलावतीत्यादि । यन्मुरजादिकं मृदंगादिकं आदिना पटहादि । आनह्यते मुखे चर्मणा बद्ध्यते तदानद्धमुच्यते । वंशादिकं " वंशी वेणुस्तेन वंशादिकमित्येव ।” आदिना शंखादि तत्सुषिरं ज्ञेयम् । “ सुषिरशब्दो दंत्यादिः । प्राचीनास्तु तालव्यादिरपीत्याहुः।” यत्कांस्यमयतालादिकं आदिना घंटाझल्लादि तद्धनं ज्ञेयं एकैकम् ॥४॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy