SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४० www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य शब्दादिवर्ग: ] शब्दे निनादनिनदध्वनिध्वानरवस्वनाः ।। २२ ।। स्वाननिर्घोषनिन्दनादनिस्वाननिस्वनाः ॥ आखारावसंरावविरावा अथ मर्मरः ॥ २३ ॥ स्वनिते वस्त्रपर्णानां भूषणानां तु शिंजितम् ॥ निक्काणो निक्कणः काणः क्वणः क्वणनमित्यपि ॥ २४ ॥ वीणायाः क्वणिते प्रादेः प्रक्काणप्रकणादयः ॥ कोलाहलः कलकलस्तिरां वाशितं रुतम् ॥ स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे ।। २५ ।। ॥ इति शब्दादिवर्गः ॥ ॥ ५ ॥ निषादर्षभगांधारषड्डू मध्यमधैवताः ॥ पंचमवेत्यमी सप्त तंत्रीकंठोत्थिताः स्वराः ॥ १ ॥ गत्वमाह अमूनीति । तद्वति सत्यवति त्रिषु । यथा सत्या स्त्री सत्यः पुमान् सत्यं कुलमिति । शब्दः निनादः निनदः ध्वनिः ध्वानः स्वः स्वनः || २२ || स्वानः निर्घोषः निहद नाद: निस्वानः निस्वनः आरवः आरावः संरावः विराव: सप्तदश शब्दमात्रस्य । वस्त्रपर्णानां स्वनिते शब्दे मर्मर इत्येकम् । " मर्मरो वस्त्रभेदे च शुष्क पर्णध्वनौ तथा । पुंसि स्त्रियां पुनः प्रोक्ता मर्मरी पीतदारुणीति मेदिनी |||२३|| भूषणानां नूपुरादीनां स्वनिते शिंजितमित्येकम् । “ तालव्यादि" । निक्काण: निक्रणः काणः कणः कणनं पंच वीणादिस्वनितस्य || २४ || प्रादेरुपसर्गात् ये प्रक्काणः प्रकण इत्यादयस्ते वीणाया एव कणिते नान्यत्र । " आदिशब्दादुपकणादयः । कोलाहलः कलकलः द्वे बहुभिः कृतस्य स्पष्टशब्दस्य । तिरश्चां पक्षिणां रुतं शब्दः वाशितं एकम् । तालव्यमध्यो ऽयम् । प्रतिश्रुत् प्रतिध्वानः द्वे प्रतिशब्दस्य । गीतं गानं द्वे गायनस्य || २५ ॥ इति शब्दादिवर्गः || ६ || स्वरभेदानाह । निषादः । निषादः स्वरभेदे ऽपि चंडाले धीवरांतरे इति विश्वः । ऋषभः गांधारः षड्जः । नासां कंठमुरस्तालु जिव्हां दंतांश्च संस्पृशन् । षड्तः स जायते यस्मात्तस्मात्ष इति स्मृतः । मध्यमः धैवतः पंचमः इत्यमी तंत्रीभ्यः कंठेभ्यश्वोत्थिताः सप्त स्वरा ज्ञेयाः एकैकम् । "" For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy