SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३८ www.kobatirth.org 66 Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [शब्दादिवर्ग: तत्र त्वक्षारणां यः स्यादाकोशो मैथुनं प्रति ॥ स्यादाभाषणमालापः प्रलापो ऽनर्थकं वचः ।। १५॥ अनुलापो मुहुर्भाषा विलापः परिदेवनम् ॥ विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः ॥ १६ ॥ सुप्रलापः सुवचनमपलापस्तु निह्नवः ॥ “चोद्यमाक्षेपाभियोगौ शापाकोशौ दुरेषणा || अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकथनम् ||१||” संदेशवाश्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे ॥ १७ ॥ रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका ॥ अत्यर्थमधुरं सांत्वं संगतं हृदयंगमम् ॥ १८ ॥ कीसुतस्य तवोचितमेवेदमिति । तत्र यो द्वितीयः स परिभाषणम् ” ॥ १४ ॥ मैथुनं प्रति परस्त्रीपुरुषसंयोगेन निमित्तेन य आक्रोशस्तत्र आक्षारणेत्येकम् "आक्षारणमिति क्लीबमपि” | आभाषणं आलापः द्वे अन्योन्य संबोधनपूर्वक भाषणस्य । यदनर्थकं वचः स प्रलाप इत्येकम् ॥ १५ ॥ अनुलापः मुहुर्भाषा द्वे बहुशो भाषणस्य । विलापः परिदेवनं द्वे रोदनपूर्वक भाषणस्य । विप्रलापः विरोधोक्तिः द्वे अ न्योन्यविरुद्धभाषणस्य । मिथः परस्परं उक्तिप्रत्युक्तियुक्तं यद्भाषणं स संलापः 'आलापस्तु एकेनापि क्रियते " || १६ || सुप्रलापः सुवचनं द्वे सुभाषितस्य । अपलापः निह्नवः द्वे गोपनकारिवचनस्य । यथा तन्मिथ्येति प्रतिवादिनि निह्नवः । "चोद्यादित्रयमद्भुतप्रश्नस्य । शापादित्रयं शापवचनस्य । चाट्ठिति त्रयं प्रेम्णा मिथ्याभाषणस्य ।" संदेशवाक् वाचिकं द्वे दूतादिमुखेन संदिश्यमानवचनस्य । उत्तरे अतः परं वक्ष्यमाणाः वाग्भेदाः “ रुशत्यादयः " सम्यगंतास्त्रिषु त्रिलिंगाः ॥ १७ ॥ यथा रुशन् शब्दः । रुशद्वचनं । या अकल्याणी वाक् सा रुशती एकं तांतम् । या शुभात्मिका वाक् सा कल्या " काल्यापि " एकं तालव्यांतम् । यदतिशयेन मधुरं तत्सांत्वं एकम् । संगतं हृदयंगमं द्वे संबद्धवचनस्य ॥ १८ ॥ निष्ठुरं परुषं द्वे कर्कशवचनस्य | ग्राम्यं अश्लीलं द्वे शिथिलवचसः “ अश्रीकारकभंडादिवचस इत्यर्थः।”यत्प्रियं सत्यं वचनं तत्र सूनृतमित्येकम् । तदुक्तं रभसे । सूनृतं मंगले ऽपि For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy