SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. प्रश्नो ऽनुयोगः टच्छा च प्रतिवाक्योत्तरे समे ॥ . मिथ्याभियोगो ऽभ्याख्यानमथ मिथ्याभिशंसनम् ॥१०॥ अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः॥ यशः कीर्तिः समैज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः ॥११॥ आग्रेडितं दिस्त्रिरुक्तमुच्चैर्युष्टं तु घोषणा ॥ काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः ॥१२॥ अवर्णाक्षेपनिर्वादपरीवादापवादवत् ॥ उपक्रोशो जुगुप्सा च कुत्सा निंदा च गर्हणे ॥ १३॥ पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगीः॥ . यः सनिंद उपालंभस्तत्र स्यात्परिभाषणम् ॥ १४ ॥ प्रश्नः अनुयोगः पृच्छा त्रयं प्रश्नस्य । प्रतिवाक्यं उत्तरं द्वे प्रतिवचनस्य । मिथ्याभियोगः अभ्याख्यानं वे "शतं मे धारयसीत्याद्यसत्याक्षेपस्य" ।मिथ्याभिशंसनम् ॥१०॥ अभिशापः द्वे सुरापानादिमिथ्यापापोद्भावनस्य । अनुरागजः गुणानुरागोत्थः शब्दः प्रणाद इत्युच्यते एकम्।यशः कीर्तिः।कीर्तिःप्रसादयशसोविस्तारे कर्दमे ऽपि चेति हैमः समज्ञा " समज्या समाज्ञा चेति पाठांतरं" त्रयं कीर्तेः । स्तवः स्तोत्रं स्तुतिः नुतिः चत्वारि स्तुतेः ॥ ११॥ द्विवारं त्रिवारं चोक्तं आनेडितमुच्यते । यथा “सर्पः सर्प इति" एकम् । उच्चैर्युष्टं घोषणा द्वे उच्चै?षस्य । शोकभीतिकामादिभिर्ध्वनेर्यो विकारः सा काकुः एकम् ॥ १२ ॥ अवर्णः “ वर्णः प्रशंसा तद्विरुद्धोऽवर्णः" आक्षेपः निर्वादः परीवादः “परिवादः" अपवादः उपक्रोशः जुगुप्सा कुत्सा निंदा गर्हणं दश निंदायाः । अपवादवदिति वत्प्रत्ययेन अवर्णादीनामुपक्रोशस्य चैकलिगत्वं ज्ञापितम् । उपक्रोशांता अवर्णादयः पुंसीति तात्पर्यम् ॥ १३॥ पारुष्यं परुषो निष्ठुरभाषणं तस्य भावः पारुष्यम् । स्वार्थे ष्यञ् । अतिवादः द्वे निष्ठुरभाषणस्य । अपकारगीः अपकारार्थकं भाषणं “चौरो ऽसि त्वां घातयिष्यामीत्यादि" तद्भर्सनमुच्यते एकम् । कस्यांचित् व्यक्तौ क्रोधपूर्वकं दोषप्रतिपादनमुपालंभः यः सनिंदः निंदायुक्त उपालंभस्तत्र परिभाषणमित्येकम् । “उपालंभो द्वेधा। गुणाविष्करणपूर्वको निंदापूर्वकश्च । आद्यो यथा । महाकुलीनस्य तव किमुचितमिदम् । द्वितीयस्तु बंध For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy