SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३६ सटीकामरकोशस्य [शब्दादिवर्गः स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः ॥ ६ ॥ समस्या तु समासार्था किंवदंती जनश्रुतिः॥ वार्ता प्रवृत्तिवृत्तांत उदंतः स्यादथाह्वयः॥७॥ आख्याद्वे अभिधानं च नामधेयं च नाम च ॥ हूतिराकारणाहानं संहूतिर्बहुभिः कृता ॥८॥ विवादो व्यवहारः स्यादुपन्यासस्तु वानखम् ॥ उपोद्धात उदाहारःशपनं शपथः पुमान् ॥ ९॥ लिहका" प्रहेलिका द्वयं यथा परैः संदिह्यते तादृशगुप्ताभिधानस्य । यथा । पानीयं पातुमिच्छामि त्वत्तः कमललोचने ॥ यदि दास्यसि नेच्छामि नो दास्यसि पिषाम्यहमिति । “ यदुक्तं । व्यक्तीकृत्य कमप्यर्थ स्वरूपार्थस्य गोपना । यत्र बाह्यार्थसंबद्धं कथ्यते सा प्रहेलिकेति" या मन्वादिभिः प्रणीता धर्मसंहिता "धर्मबोधार्थ रचिता संहिता" सा स्मृतिः। वेदार्थस्मरणपूर्वकं रचितत्वात्स्मृतिरित्यर्थो ऽपि । स्मरतेः क्तिन् एकम् । समाहृतिः संग्रहः । “विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः । निबंधो यः समासेन संग्रहं तं विदुर्बुधाः" द्वयं संग्रहग्रंथस्य ॥६॥ या समा. सार्था पूरणीयार्था कविशक्तिपरीक्षणार्थमपूर्णतयैव पद्यमानार्था वा सा समस्या । यथा शतचंद्रं नभःस्थलं । तत्पूरणं यथा । दामोदरकराघातविहलीकृतचेतसा । दृष्टं चाणूरमल्लेनेति ॥ “समस्या त्वसमासार्थेति पाठे तु अपरिपूर्णार्धेत्यर्थः ।" किंव. दंती "किंवदंतिः" जनश्रुतिः जनेभ्यः श्रूयते । कर्मणि क्तिन् । द्वे चतुरक्षरे नामनी लोकप्रवादस्य । वार्ता प्रवृत्तिः वृत्तांतः उदंतः चत्वारि यथास्थितलोकवृत्तकथनस्य । आह्वयः ॥ ७॥ आख्या आह्वा अभिधानं नामधेयं । भागरूपेति नामशब्दात् धेयप्रत्ययः । नाम षटूनाम्नः । हूतिः आकारणा आह्वानं त्रयं आह्वानस्य । या बहुभिः कृता इतिः सा संहतिः एकम् ॥८॥विरुद्धो वादः विवादः व्यवहारः। "विनानाऽर्थे ऽवसंदेहे हरणं हार उच्यते । नानासंदेहहरणाव्यवहारः प्रकीर्तित इति कात्यायनः" । द्वे ऋणदानादिनिमित्तविविधवादस्य । उपन्यासः वाजखं वाचो मुखमिव मुखमुपक्रमः द्वे वचनारंभस्य । उपोद्धातः उदाहारः द्वे प्रकृतसिद्ध्यर्थचिंतनस्य । तदुक्तम् । चिंताप्रकृतसिद्ध्यर्थमुपोद्घातं प्रचक्षत इति । "उपोद्धातादि द्वे वक्ष्यमाणोपयोग्यर्थवर्णनस्येति वा ।" शपनं शपथः द्वयम् ॥९॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy