SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. ३५ स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी ॥ ३॥ शिक्षेत्यादि श्रुतेरंगमोंकारप्रणवौ समौ ॥ इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः॥४॥ आन्वीक्षिकी दंडनीतिस्तर्कविद्यार्थशास्त्रयोः॥ आख्यायिकोपलब्धार्था पुराणं पंचलक्षणम् ॥५॥ प्रबंधकल्पना कथा प्रवल्हिका प्रहेलिका ॥ तद्विधिः वैदिको विधिर्यागादिः धर्म इत्युच्यते । वेदमूलत्वात्स्मृत्युक्तोऽपि विधिधर्म एव । यदाह गौतमः । श्रुतिस्मृतिविहितो धर्म इति । केचित्तु लिंगसंकरो माभूदिति त्रयीधर्म इति समस्तं पदमाहुः । “विधानमृग्यजुःसाम्नां त्रयीधर्म विदुर्बुधाः" ॥ त्रयीशब्दे विशेषं दर्शयन्वेदभेदानभिधत्ते । ऋक् ऋच्यते स्तूयंते देवा अनया । ऋच् स्तुतौ संपदादित्वात् किम् । साम यजुः इति त्रयो वेदा मिलितास्त्रयी ज्ञेया । तत्र ऋक्शब्दः स्त्रीलिंगः ॥ ३॥ शिक्षा कल्पो व्याकरणमित्यादि वेदस्यांगं ज्ञेयं । “शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः ॥छंदोविचितिरित्येष षडंगो वेद उच्यते। प्रसंगादिदमप्युच्यते । वेदानामष्टौ विकृतयः । जटा माला शिखा रेखा ध्वजो दंडो रथो धनः ॥ अष्टौ विकृतयः प्रोक्ताः क्रमपूर्वा महर्षिभिः ॥ षट् शास्त्राण्याह । गौतमस्य कणादस्य कपिलस्य पतंजलेः ॥ व्यासस्य जैमिनेश्चापि दर्शनानि षडेव हि । चतुर्दश विद्याः। अंगानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश""कल्पः कल्पसूत्रं" ओंकारःप्रणवः द्वे। इतिहासः इतिहेति पारंपर्योपदेशे ऽव्ययम् तदास्तेऽस्मिन् । आस उपवेशने अधिकरणे घञ् । पुरावृत्तं द्वे पूर्वचरितस्य महाभारतादेः । उदात्तः अनुदात्तः स्वरितः इति त्रयः स्वरा उच्यते एकम् ॥ “ उदात्तश्चानुदात्तश्च स्वरितश्च स्वरात्रयः॥ चतुर्थः प्रचितो नोक्तो यतो ऽसौ छांदसः स्मृतः" ॥४॥आन्वीक्षिकीत्येकं तर्कविद्यायां गौतमादिप्रणीतायां । दंडनीतिरित्येकं अर्थशास्त्रे बृहस्पत्यादिप्रणीते । “अर्थस्य भूम्यादेः शास्त्रम्" । आख्यायिका उपलब्धार्था द्वयं अनुभूतार्थप्रतिपादकस्य वासवदत्तादेः । यत्पंचलक्षणं तत्पुराणमुच्यते । “सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च ॥ वश्यानुचरितं चैव पुराणं पंचलक्षणम्” ॥५॥ प्रबंधस्य वाक्यविस्तरस्य या कल्पना रचना सा कथा एक नाटकरामायणादेः । प्रवल्हिका "प्रब For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy