SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. कृतः कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि ।। अणाद्यंतास्तेन रक्ताद्यर्थे नानार्थभेदकाः ॥ ४५ ॥ पदसंज्ञकास्त्रिषु समा युष्मदस्मत्तिङव्ययम् ॥ परं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः ॥ ४६ ॥ इति लिंगादिसंग्रह वर्गः ॥ For Private And Personal ३७५ योगेन यथा । दंडिनी स्त्री । क्रियायोगेन यथा । पाचिका स्त्री । गुणद्रव्यक्रियायोगोपाधयः परगामिन इति पाठांतरम् ॥ ४४ ॥ असंज्ञायां कर्तरि कृत्प्रत्ययाः । परोपगा यथा । करोतीति कर्त्री । कर्ता पुमान् । कर्तृ कलत्रम् | असंज्ञायां किम् । प्रजा । हरिः । कर्तरि किम् । कृतिः । कर्मणि कर्तरि च वर्तमानाः कृत्प्रत्ययाः परगामिनः । कर्मणि यथा । कर्तव्या भक्तिः । कर्तव्यो धर्मस्त्वया । कर्तरि यथा । वसतीति वास्तव्यो ऽयम् । वास्तव्या सा | वास्तव्यं तत् । कर्तरि कर्मणीति किम् । भावे तु तव्यं त्वया । तेन रक्तमित्याद्यर्थे अणादितद्धितप्रत्ययांता नामार्थभेदकाः भनेकार्थविशेषणभूताः विशिष्टत्वाद्वाच्यलिंगा इत्यर्थः । यथा कुसुंभेन रक्ता शाटी कौसुंभी । कौसुंभः पटः । कौसुंभं वासः । तेन रक्तं रागादित्यण् ॥ रक्ताद्यर्थ इत्यादिशब्दान्मथुराया भगतो माथुरो ऽयम् । इयं माधुरी । अणाद्यंता इत्यादिशब्दाद्रामे भवा प्राम्या स्त्री । प्राम्यः पुमान् । अत्र यत्प्रत्ययः ॥ ४५ ॥ षट्संज्ञकाः षांतनांत संख्या कतिशब्दश्च त्रिलिंग्यां समाः सरूपा नित्यं बहुषु वर्तमाना तो बहुवचनांताश्चेत्यर्थः । यथा । षडिमे । षडिमाः । षडिमानि | पंच1 भिरेताभिः । कति पुमांसः । कति स्त्रियः । कति कुलानि । युष्मदस्मच्छन्दौ तितपदान्यव्ययानि च त्रिषु समान लिंगकृतविशेषरहितानीत्यर्थः । युष्मच्छब्दो यथा । त्वं स्त्री । त्वं पुमान् । त्वं कलत्रम् । अस्मच्छब्दो यथा | भावां पुमांसौ । भवां स्त्रियौ । आवां कलत्रे । तिङ् यथा । स्थाली भवति । घटो भवति । पात्रं भवति । एवं दारा भवतीत्यादि । अव्ययं यथा । उच्चैः दाराः । उच्चैः स्त्री । उच्चैः कलत्रम् | उच्चैः प्रासाद इत्यादि । परमिति । विरोधे विप्रतिषेधे सति परं लिंगानुशासनं प्रवर्तते । यथा मानुषशब्दस्य कषणभमरोपांता इति प्रागुक्तविधिना पुंस्त्वे एव प्राप्ते सति द्विचतुः षट्पदेत्यनेनोत्तरत्रोक्तेन स्त्रीपुंसविधिर्निश्श्रेयः । यथा मानुषीयम् । मानुषो ऽयमिति । शेषमिति शेषमत्रानुक्तम् । अभिधाना
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy