SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३७४. सटीकामरकोशस्य [लिंगादिसंग्रहवर्गः परं लिंगं स्वप्रधाने दवे तत्पुरुषे ऽपि तत् ॥ १२॥ अर्थाताः प्राचलंप्राप्तापन्नपूर्वाः परोपगाः॥ तद्धितार्थो द्विगुः संख्यासर्वनामतदंतकाः॥४३॥ बहुव्रीहिरदिङ्नाम्नामुन्नेयं तदुदाहृतम् ।। गुणद्रव्यक्रियायोगोपाधिभिः परगामिनः ॥ ४४ ॥ यूर्याविमे । मयूरीकुकुटाविमौ । तत्पुरुषे यथा । धान्येनार्थो धान्यार्थः । सर्पा-नीतिः सर्पभीतिः । सर्पभयम् । वाप्यश्वः ॥ ४२ ॥ उक्तस्य तत्पुरुषलिंगस्यापवादमाह । अर्थेति । अर्थातशब्दाः परोपगाः परगामिनः वाच्यलिंगा इत्यर्थः । यथा । द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थ पयः । अर्थेन नित्यसमासो विशेष्यलिंगता चेति वक्तव्यमिति वार्तिकम् । प्रेति । प्राद्यलंप्राप्तापन्नपूर्वाः परोपगाः । " परं विशेष्यमुपगच्छंतीत्यर्थः ।" तत्र प्रादिपूर्वो यथा । अतिक्रांतो मालामतिमालो हारः । अतिक्रांता मालामतिमालेयम् । अतिमालमिदम् । अवक्रुष्टः कोकिलया अवकोकिलः । अलंपूर्वो यथा । अलंकुमार्यै इत्यलंकुमारिरयम् । अलंकुमारिरियम् । अलंकुमारि इदम् । प्राप्तजीविको द्विजः । प्राप्तजीविका स्त्री । प्राप्तजीविकमिदम् । एवमापन्नजीविकः । तद्धितार्थो द्विगुर्वाच्यलिंगः । पंचकपालः पुरोडाशः। पंचकपालं हविः । संख्याशब्दाः सर्वनामसंज्ञकास्तदंतकाश्च परलिंगभाजः । संख्या यथा । एकः पुमान् । एकं कुलम् । द्वौ पुमांसौ । द्वे स्त्रियौ कुले च । " त्रयः पुरुषाः । तिस्रः स्त्रियः। त्रीणि कुलानि । एवं चत्वारः चतस्रः चत्वारि ।" षट्संज्ञकान्वक्ष्यति । विंशत्यादीनां लिंगं द्वितीयकांडे उक्तम् । शतादिकानां तु नपुंसकसंग्रहे । सर्वनाम यथा । सर्वो देशः । सर्वा नदी । सर्व जलम् । एवं परः पुमान् । “ संख्यांतको यथा । ऊनत्रयः । ऊनतिस्रः । ऊनत्रीणि ।" सर्वनामांतको यथा । परमसर्वः । परमसर्वा । परमसर्व ॥४३॥ अदिङ्नाम्नां बहुव्रीहिरन्यालिंगभाक् । तदुदाहरणं स्वयमुन्नेयम् । यथा । वृद्धा भार्या यस्य स वृद्धभार्यः ॥ बहुधनः बहुधना “बहुधनमित्यादि । अदिङ्नानामिति किम् । दक्षिणस्याः पूर्वस्याश्च दिशोरंतरालं दिक् दक्षिणपूर्वा । दिङ्नामान्यंतराले इत्यनेनात्र बहुव्रीहिः गुणयोगेन द्रव्ययोगेन क्रियायोगेन च य उपाधिविशेषणं तेन धर्मिणिप्रवृत्तास्ते धमिलिं. गभाजः । गुणयोगेन यथा । गंधवती पृथ्वी । गंधवानश्मा । गंधवत्कुसुमम् । द्रव्य For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy