SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. ३७३ औचित्यमौचिती मैत्री मैत्र्यं कुञ् प्रायुदाहृतः॥ ३९॥ षष्ठयंतप्राक्पदाः सेनाछायाशालासुरानिशाः॥ स्याहा नृसेनं श्वनिशं गोशालमितरे च दिक् ॥४०॥ आवनंतोत्तरपदो द्विगुवापुंसि नश्च लुप् ॥ त्रिखटुं च त्रिखट्टी च त्रितक्षं च त्रितक्ष्यपि ॥४१॥ . ॥ इति स्त्रीनपुंसकशेषः॥ त्रिषु पात्री पुटी वाटीपेटी कुवलदाडिमौ॥इति त्रिलिंगशेषसंग्रहः।। भाईती।" वुब्प्रत्ययस्तु वैरमैथुनिकादिवुन् इत्थं प्रागुदाहृतः । तथा मिथुनस्य भावः कर्म वा मैथुनिका मैथुनकं च । मनोज्ञादित्वादुम् ॥ ३९ ॥ तत्पुरुषे षष्ठ्यंतं षष्ठीविभत्त्यंतं प्राक्पदं यासां ताः षष्ठयंतप्राक्पदाः सेनाद्याः स्त्रियां क्लीबे च स्युः । उदा. हरति । नृणां सेना नृसेनम् । वेति विकल्पासेनापि । इतर इति एवमन्यत्राप्युदा. हर्तव्यमित्यर्थः । यवतुरं यवसुरा । कुड्यस्य च्छाया कुड्यच्छायं कुड्यच्छाया वा । षष्ठीबहुवचनांतप्राक्पदा चेच्छाया क्लीब एवेति प्राग्दर्शितम् ॥४०॥ आबंतोत्तरपदो ऽनंतोत्तरपदश्च द्विगुसमासः पुंसि न स्यात् । किंतु स्त्रीनपुंसकयोः । अन्नंतोत्तरपदस्य यों ऽत्यनकारस्तस्य लुप् लोपश्च स्यात् । आवंतांत्यपदमुदाहरति । त्रिखट्रमिति । तिस्रः खदाः समाहृताः त्रिखटम । त्रिखट्टी च । अन्नंतोत्तरपदो यथा । त्रयस्तक्षाणः समाहृतावितक्षम् | त्रितक्षी च । तक्षन्शब्दस्यांत्यनकारो लुप्तः॥४१॥ इति स्त्रीनपुंसकसंग्रहः॥ पात्रादयो दाडिमांतात्रिषु त्रिलिंगाः । पात्रं पात्रः इत्यादि । पात्र्यमत्रे त्रिष्विति मेदिनी। पात्रं तु कलयोर्मध्ये पर्णे नृपतिमंत्रिणि । योग्यभाजनयोर्यज्ञभांडे नाट्यानुकर्तरीति हैमः । वाटः पथि वृतौ वाट वरंडे गात्रभेदयोः । वाटी वास्तौ गृहोद्यानकट्योरिति हैमः ।" कुवलं बदरीफलम् । “कुवलं चोत्पले मुक्ताफले ऽपि बदरीफले । कुडुले मुकुरे पुंसि न द्वयोर्नरकांतर इति मेदिनी ॥” इति त्रिलिंगशेषः ॥ ॥ द्वंद्वैकत्वस्याव्ययीभावस्य च लिंगं प्रागुक्तम् । स्वप्रधाने उभयपदप्रधाने इतरेतराख्ये द्वंद्वसमासे च तत्पुरुषे च यत्परमग्रिमपदस्थं लिंगं तदेव लिंगं स्यात् तत्र परवलिंग द्वंद्वतत्पुरुषयोरिति पाणिनिसूत्रम् । तत्र द्वंद्वे यथा । कुक्कुटम For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy