SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३२ सटीकामरकोशस्य [धीवर्गः तुवरस्तु कषायो ऽस्त्री मधुरो लवणः कटुः ।। तितोऽलश्च रसाः पुंसि तवत्सु षडमी त्रिषु ॥९॥ विमर्दोत्थे परिमलो गंधे जनमनोहरे ॥ आमीदः सोऽतिनिर्हारी वाच्यलिंगत्वमागुणात् ॥ १०॥ समाकर्षी तु निर्हारी सुरभिर्घाणतर्पणः॥ इष्टगंधः सुगंधिः स्यादामोदी मुखवासनः ॥११॥ प्रतिगंधिस्तु दुर्गधो विस्त्रं स्यादामगंधि यत् ॥ शुक्लशुभ्रशुचिश्वेतविशदश्येतपांडराः॥१२॥ पृथक् पृथक् ज्ञेयाः । एवं तुवराद्याः षडपि रसा उच्यते । तत्र तुवरो हरीतक्यादौ प्रसिद्धः । मधुरो जलादौ प्रसिद्धः। लवणः सैंधवादौ प्रसिद्धः । कटुमरीचादौ प्रसिद्धः । एवं तिक्तो निंबादौ । अम्लस्तित्तिड्यादौ "अंब्लं"। रस्यंते आस्वाद्यते इति रसाः कर्मणि घञ्। अमी तुवराद्याः षडपि रसमात्रे वर्तमानाः पुंसि । तद्वत्सु रसवत्सु वर्तमानास्त्रिषुवाच्यलिंगा इत्यर्थः । “तुवरकषायौ नपुंसकावपि अस्त्रीत्युक्तत्वात्"॥९॥ विमर्दोत्थे संघर्षणादिनोत्पन्ने जनमनोहरे गंधे परिमल इत्येकम् ।विमर्दग्रहणेन जातिपद्मादेनिरासः । यो ऽतिनिहर्हारी अत्यंतसमाकर्षी स गंध आमोद उच्यते॥“कस्तूरिकायामामोदः कर्पूरे मुखवासनः ॥ बकुले स्यात्परिमलश्चंपके सुरभिस्तथेति शब्दार्णवः" ॥ एकंम् । इतः परं आगुणाद्गुणाः शुक्लादय इति वक्ष्यमाणाद्गुणशब्दात्प्राक् वाच्यलिंगत्वं अभिधेयानुसारेण त्रिलिंगत्वम्॥१०॥समाकर्षी निर्हारी द्वे दूरनिपातिनो गंधद्रव्यस्य । निहरत्यवश्यं मनो निर्हारी। सुरभिः घ्राणतर्पणः इष्टगंधः सुगंधिः च. त्वारि शोभनगंधयुक्तस्य । शोभनो गंधो ऽस्य सुगंधिः । आमोदी मुखवासन इति द्वे यन्मुखं वासयति तस्य तांबूलादेः ॥ ११॥ पूतिगंधिः दुर्गंधः द्वे अनिष्टगंधयुक्तस्य । पूतिर्दुष्टः गंधो यस्य सः । यदामगंधि तद्विसं एकं अपक्कमांसादिगंधस्य । आमोऽपक्कमलस्तस्येव गंधो यस्य तत् । उपमानाञ्चेतीत् । शुक्ल: शुभ्रः शुचिः श्वेतः विशदःश्येतः पांडरः॥ १२॥अवदातः सितः गौरः अवलक्षः “वलक्षोऽपि" वष्टिभागुरिरित्यनेनाल्लोपपक्षे । धवलः अर्जुनः हरिणः पांडुरः नगपांसुपांडुभ्यश्चेति रः। पांडुः षोडश नामानि शुक्लस्य । “तत्रार्जुनांतानि त्रयोदश नामानि शुक्लस्य । हरिणादीनि त्रीणि पीत For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy