SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. ३३ अवदातः सितो गौरो ऽवलक्षो धवलो ऽर्जुनः॥ हरिणः पांडुरः पांडुरीषत्पांडुस्तु धूसरः १३॥ कृष्णे नीलासितश्यामकालश्यामलमेचकाः॥ पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ॥ १४ ॥ लोहितो रोहितो रक्तः शोणः कोकनदच्छविः॥ अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः ॥ १५॥ श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते ॥ कडारः कपिलः पिंगपिशंगौ कट्ठपिंगलौ ॥ १६ ॥ मिश्रशुक्लस्येति विभागः साधुः।शब्दार्णवे तु। श्वेतस्तु समपीतोऽसौ रक्तेतरजपारुचिः। वलक्षस्तु सितः शावः कदलीकुसुमोपमः । अर्जुनस्तु सितः कृष्णलेशवान् कुमुदच्छविः। पांडुस्तु पीतभागार्धः केतकीधूलिसन्निभ इत्युक्तम् । हरिणौ पांडसारंगाविति हैमः।” ईषत्पांडुः धूसरः । “धूसरस्तु सितः पीतलेशवान् बकुलच्छविरिति शब्दार्णवः। द्वे ईषद्धवलस्य ॥ १३ ॥ कृष्णः नीलः असितः श्यामः कालः श्यामलः मेचकः । “मेचकः कृष्णनीलः स्यादतसीपुष्पसन्निभ इति शब्दार्णवः" सप्तकं नील्यादिगतवर्णस्य । पीतः गौरः हरिद्राभः त्रयं पीतस्य । पालाशः "पलाशो ऽपि" हरितः हरित् त्रयं शिरीषादिपत्रगतवर्णस्य । हरित्तांतः ॥१४॥ लोहितः रोहितः रक्तः त्रयं रक्तस्य । यः कोकनदच्छविः रक्तोत्पलाभः स शोण इत्येकम् । योऽव्यक्तराग ईषद्रक्तः सो ऽरुणः । “अरुणः कृष्णलोहित इत्यमरमाला" एकम् । यः श्वेतमिश्रो रक्तःस पाटल इत्येकम् ॥ १५॥श्यावः कपिशः द्वे धूसरारुणवर्णस्य । कपिमर्कटः तद्वद्वर्णो ऽस्त्यस्य कपिशः ।धूम्रः धूमलः कृष्णलोहितः त्रयं कृष्णमिश्रलोहितवर्णस्य । कडारः कपिलः पिंगः पिशंगः कद्रुः पिंगलः षटुं पिंगलवर्णस्य । अयमत्यंतगौरबालकस्य केशेषु प्रसिद्धः । पिंगा गोरोचना पांडुरिति कात्यः । “शब्दार्णवे तु सितपीतहरिद्रक्तः कडारस्तृणवन्हिवत् । अयं तद्रक्तपीतांगः कपिलो गोविभूषणः । हरितांशेऽधिके ऽसौ तु पिशंगः पद्मधूलिवत् ।पिशंगस्त्वासितावेशापिशो दीपशिखादिषु । पिंगलस्तु परच्छायः पिंगे शुक्लांगखंडवदित्युक्तम्" ॥ १६॥ चित्रं किर्मीरः "कर्मीरः" कल्माष: शबलः एत: कबुरः षटं कचुरस्य विचित्रवर्णस्येत्यर्थः । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy