SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः ॥ अंगीकाराभ्युपगमप्रतिश्रवसमाधयः ॥ ५ ॥ मोक्षे धर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः || मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् || ६ || मोक्षो ऽपवर्गो ऽथाज्ञानमविद्याहंमतिः स्त्रियाम् ॥ रूपं शब्दो गंधरसस्पर्शाच विषया अमी ॥ ७ ॥ गोचरा इंद्रियार्थाच हृषीके विषयींद्रियम् ॥ कर्मेंद्रियं तु पाय्वादि मनोनेत्रादि धींद्रियम् ॥ ८ ॥ For Private And Personal ३१ 22 ज्ञानं संशयः । स्थाणौ स्थाणुरिति ज्ञानं निश्चयः ॥ ४ ॥ संवित् आगूः प्रतिज्ञानं नियम: आश्रवः संश्रवः अंगीकारः अभ्युपगमः प्रतिश्रवः समाधिः दशकं अंगीकारस्य । तत्र संवित् आगूश्च स्त्रियाम् । “आगूर्वधूवत् आग्वैौ आग्व इत्यादि । पक्षे धूर्वत् आआर इत्यादि ॥ ५ ॥ मोक्षविषये या धीर्बुद्धिः तत् ज्ञानं एकम् । मोक्षशाखादन्यत्र शास्त्रे शिल्पे चित्रादौ च धीर्विज्ञानमुच्यते " मोक्षनिमित्तं शिल्पशास्त्रयोर्धर्ज्ञानं । अन्यनिमित्तं या तयोर्धीः सा विज्ञानमिति वा" । विज्ञानं कर्मणि ज्ञाने इति है : एकम् । मुक्तिः जन्ममरणाभ्यां मोचनम् मुच्ल मोक्षणे क्तिन मुक्तिर्मोचनमोक्षोरितिमः । कैवल्यं निर्वाणं श्रेयः । अतिशयेन प्रशस्यम् ईयसुनि प्रशस्येति I श्रादेशः निःश्रेयसम् । अचतुरेति निपातनादच् । अमृतम् ॥ ६॥ मोक्षः अपवर्गः अष्टकं मोक्षस्य | अज्ञानं अविद्या अहंमतिः । अहं प्रधाना मति: अहमिति विभक्तिप्रतिरूपकमव्ययम् अहंकारार्थकम् । त्रयमज्ञानस्य । रूपं शब्दः गंधः रसः स्पर्शः एते पंच विषया इति गोचरा इति इंद्रियार्था इति चोच्यते त्रयम् ॥ ७ ॥ हृषीकं विषयि इंद्रियं इंद्रस्यात्मनो लिंगम् । त्रयं चक्षुरादेरिंद्रियस्य । विषयि नांतम् । पायूपस्थादि कर्मेंद्रिय - मुच्यते । आदिना वागादि । " तद्यथा । पायूपस्थं पाणिपादौ वाक्चेतींद्रियसंग्रहः । उत्सर्ग आनंदादानगत्यालापाश्च तत्क्रिया इति " मनोनेत्रादि धींद्रियमुच्यते । आदिना श्रोत्रादि । " मनः कर्णस्तथा नेत्रं रसना च त्वचा सह ॥ नासिका चेति षट् तानि धींद्रियाणि प्रचक्षते ” एकम् ॥ ८ ॥ अथ रसभेदानाह । तुवर: " दीर्घादिरपि कुरो sपि " कषायः द्वे तुवरस्य प्राकृतभाषया तुरट इति ख्यातस्य । मधुराद्याः
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy