SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. पातकोद्योगचरकतमालामलका नडः ॥ ३३॥ कुष्टं मुंडं शीधु बुस्तं वेडितं क्षेमकुट्टिमम् ॥ संगमं शतमानार्मशंबलाव्ययतांडवम् ॥ ३४ ॥ कवियं कंकासं पारावारं युगंधरम् ॥ यूपं प्रग्रीवपात्रीवे यूषं चमसचिक्कसौ ॥ ३५॥ अर्धर्चादौ घृतादीनां पुंस्त्वाचं वैदिकं ध्रुवम् ॥ तन्नोक्तमिह लोके ऽपि तवेदस्त्यस्तु शेषवत् ॥ ३६ ॥ ॥ इति पुनपुंसकसंग्रहवर्गः॥ पाठस्तत्र स्यूतवस्त्रम् ।" तमालो वृक्षभेदः । “तमालस्तिलके खड्ग तापिच्छे वरुणद्रुम इति मेदिनी।" आमलको धात्रीफलम् । नडों ऽतर्विवरं “तृणभेदश्च"॥३३॥ कुष्टं रोगभेदः । कुष्टं रोगे पुष्करे ऽस्त्रीति मेदिनी । कुष्टं भेषजरोगयोरिति हैमः। मुंडं शिरः । शीधु मद्यम् । बस्तं भृष्टं मांसं पनसादिफलासारभागश्च । कचित्पुस्तमिति पाठः । कचित् श्वस्तमपि । क्ष्वेडितं वीरकृतसिंहनादः ।" क्षेमं कुशलम् । "क्षेमो ऽस्त्री लब्धरक्षणे । चंडायां ना शुभे न स्त्री कात्यायन्यां तु योषितीति मेदिनी ।" मोक्षे ऽपि क्षेमः । कुट्टिमं भित्तिभेदः । “कुट्टिमो ऽस्त्री निबद्धा भूरिति कोशांतरम् । फरसबंदीति ख्यातायाः।" संगम संयोगः । शतमानं मानभेदः । अर्म अक्षिरोगभेदः । शंबलं वर्णभेदः “पाथेयं च । शबलो ऽस्त्री संबलवत्कूलपाथेयमत्सर इति मेदिनी।" अव्ययं स्वरादिनिपातवाचकम् । “ अव्ययो ऽस्त्री शब्दभेदे ना विष्णौ निर्व्यये त्रिष्विति मेदिनी ।" तांडवं नृत्यभेदः ॥ ३४॥ कवियं महाराष्ट्रभाषया कडियाळीति प्रसिद्धम् । लगाम इत्यपि । “ नार्या कवीखलीनं कवियं वा ना तुरंगमुखभांडमिति बोपालितः।" कंदं पद्मिनीमूलादि । “ कंदोऽस्त्री सरणे सस्यमूले जलधरे पुमानिति मेदिनी। कचित्कर्मेति पाठः।" कार्पासं वस्त्रयोनिभेदः । “पारावारः पयोराशौ पारावारं तटद्वयमिति हैमः । युगंधरं कूबरम् ।" यूपं यज्ञांगभेदः । प्रग्रीवं दुमशीर्षकं “वातायनं मुखशाला वा ।" पात्रीवं यज्ञपात्रभेदः । यूषं मंड इति प्रसिद्धम् । “ मुद्गामलकयूषस्तु प्राही पित्तकफे हित इत्युक्तं वैद्यके।" चमसचिकसौ पात्रभेदौ ॥३५॥ अर्धर्चादौ अस्मिन्वर्गे पुन्नपुंसकाधिकारे इति यावत् । घृतादीनां पुंस्त्वाचं पाणिन्यादिभिरुक्तं तत्तु वैदिकम् । वेदे प्रसिद्धमित्यर्थः। अतस्तदिह नोक्तम् । तल्लोके ऽप्यस्ति चेत् शेषवत् उक्तादन्यः शेष. For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy