SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३७० सटीकामरकोशस्य [लिंगादिसंग्रहवर्गः माणिक्यभाष्यसिंदूरचीरचीवरपिंजरम् ॥ ३१ ॥ लोकायतं हरितालं विदलस्थालबाल्हिकम् ।। इति नपुंसकसंग्रहः॥ पुन्नपुंसकयोः शेषो ऽर्धर्चपिण्याककंटकाः॥ ३२॥ मोदकस्तंडकष्टंकः शाटकः कर्पटो ऽबुंदः॥ "सिंदूरस्तरुभेदे स्यात्सिंदूरं रक्तचूर्णके । सिंदूरी रोचना रक्तवेल्लिका धातकीषु चेति विश्वप्रकाशः ।" चीरं वस्त्रभेदः । “चीरी झिल्लयां नपुंसकं । गोस्तने वस्त्रभेदे च रेखालेखनभेदयोरिति मेदिनी ।" चीवरं मुनिवासः । “शाक्यभिक्षुप्रावरणमिति सुभूतिः।" पिंजरं पक्ष्यादिबंधनागारम् । “पिंजरोऽश्वांतरे पीते क्लीबं स्वर्णे च पीतक इति कोशातरम् । पंजरमित्यपि पाठः" ॥ ३१॥ लोकायतं चार्वाकशास्त्रम् । हरितालं धातुभेदः । “हरितालं धातुभेदे त्री दूर्वाकाशरेनयोरिति मेदिनी ।" विदलं वंशदलकृतपात्रभेदः । स्थालं भांडभेदः । बाल्हिकं कुंकुमादि । “बालहकमिति च बाल्हवमित्यपि । बल्हुदेशे भवं बाल्हवम्" ॥ इति नपुंसकसंग्रहः ॥ अथ चिकसपर्यंताः पुंसि क्लीबे च स्युः । उक्तादन्यः शेषः । यथा शंखपद्मौ निधिवाचको पुंसि । कंबुनलिनवाचिनौ तु पुन्नपुंसकयोः । तथा ऽत्रत्यशब्दो ऽपि यत्पर्याये बाधितस्तत्पर्यायाद्भिन्नश्चेत् पुनपुंसकयोरित्यर्थः। ऋचो ऽर्धमर्धर्चः । पिण्याकं तिलकल्कम् । “पिण्याको ऽस्त्री तिलकल्के हिंगुवाल्हीकसिल्हक इति मेदिनी।" कंटकं रोमहर्षादि । “ कंटकः क्षुद्रशत्रौ च कर्मस्थानिकदोषयोः । रोमांचे च द्रुमांगे च कंटको मस्करे ऽपि चेति विश्वप्रकाशः । कंटको न त्रियां क्षुद्रशत्रौ मत्स्यादिकीकसे । नैयोगिकादिदोषोक्तौ स्याद्रोमांचट्ठमांगयोरिति मेदिनी"॥ ॥ ३२ ॥ मोदकं भक्ष्यभेदः । “ मोदकः खाद्यभेदे ऽस्त्री हर्षके पुनरन्यवदिति मेदिनी । मोदको हर्षुले खाद्य इति हैमः।" तंडकः उपतापविशेषः । “तंडकः खंजने फेने समासप्रायवाचि च । गृहदारुतरुस्कंधमायाबहुलकेष्वपीति मेदिनी । दंडक इत्यपि ।" टंकोऽश्मदारणः। " टंको नीलकपित्थे च खनित्रे टंकनेऽस्त्रियाम् । जंघायां स्त्री पुमान्कोपे कोशासिमावदारण इति मेदिनी ।" शाटकः पटभेदः कर्पटं स्थानभेदः वस्त्रभेदो वा । " खर्वटमित्यपि । यत्रैकतो भवेद्रामो नगरं चैकतः स्मृतम् ॥ मिश्रं तु खटं नाम नदीगिरिसमाश्रयमिति ।" अर्बुदं संख्याभेदः । पातकं ब्रह्महत्यादि । उद्योग उत्साहः । चरक वैद्यशास्त्रभेदः । “करक इत्यपि For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy