SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम् . भावे न कचिद्रयो ऽन्ये समूहे भावकर्मणोः ॥ अदंतप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः ॥ २९ ॥ क्रियाव्ययानां भेदकान्येकत्वे ऽप्युक्थतोटके || चोचं पिच्छं गृहस्थूणं तिरीटं मर्म योजनम् ॥ ३० ॥ राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः ॥ For Private And Personal ३६९ नणकचितः । तेभ्यो ऽन्ये ये तव्यदादयो ऽदंता धातुप्रत्ययाः भावे विहितास्ते क्लीबे । तंत्र धातुप्रत्यया यथा । भवितव्यम् । भाव्यम् । सहितम् । भुक्तम् । नणकचिद्भयो ऽन्य इति किम् । प्रश्नः न्यादः आखूत्थः । वेपथुः । नणकेति घन उपलक्षणम् । पाकः । भावे किम् । कर्तव्यो धर्मसंग्रहः । मृतो वैरी । समूहार्थे यथा । भिक्षाणां समूहो भैक्षम् । गार्भिणम् । औपगवकम् । काकमित्यादि । भावे अदंता यथा । गोर्भावः गोत्वम् । शुर्भावः शौचम् । कर्मणि यथा । शौक्लयम् । राज्ञः कर्म राज्यम् । चौर्यम् । तल्प्रत्ययस्य तु स्त्रीत्वमुक्तम् । पुण्यसुदिनाभ्यां परो विहितसमासांतो ऽहनशब्दः क्लीषे । पुण्यसुदिनाभ्यामह्नः क्लीवतेष्टेति वार्तिकेणेत्यर्थः । अह्नोहांता इति पुंस्खस्यापवादो ऽयम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः प्रशस्तार्थः ॥ २९ ॥ क्रियानामव्ययानां च भेदकानि विशेषणानि क्लीवे एकवचने च स्युः । क्रियाविशेषणं यथा । मंदं पचति । सुखं तिष्ठति योगिनः । सलीलं नृत्यति बाला । अव्ययविशेषणं यथा । रम्यं स्वः । सुखदं प्रातः । अथ कानिचित्कंठरवेणाह । उक्थं सामभेदः । तोटकं वृत्तभेदः रूपकभेदश्च । चोचमुपभुक्तफलावशिष्टं तालफलं वा । कदल्याः फलमिति कश्चित् । पिच्छं बर्ह । गृहस्थूणं गेहस्तंभः । रीटं वेष्टनम् । " शिरोभूषणमिति केचित् । " मर्म संधिस्थानम् | योजनं क्रोशचतुष्टयम् । “ योजनं परमात्मनि । चतुष्क्रोश्यां च योगे चेति मेदिनी ॥ २० ॥ राजसूयवाजपेये यागभेदौ । “ राज्ञा लतात्मकः सोमः सूयते ऽत्र राजसूयम् । वाजं पैष्टी सुरा पेयमत्र वाजपेयम् । ” कवेः कृतौ वर्तमानं गद्यम् । पदसमूहः पद्यं श्लोकः । " पद्यं श्लोके पुमान् शूद्रे पद्या वर्त्मनि कीर्तितेति मेदिनी ।" कवेः कृताविति किम् । गद्या वाक् । पद्या पद्धतिः । माणिक्यं रत्नभेदः । “ मणिके मणिपूराख्ये नगरे भवं माणिक्यम्।” भाष्यं पदार्थविवृतिः । “सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः ॥ स्वपदानि च वर्ण्यते भाष्यं भाष्यविदो विदुरिति । ” सिंदूरं रक्तचूर्णभेदः । " ४७
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy