SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [लिंगादिसंग्रहवर्गः षष्ट्याश्छाया बहूनां चेदिच्छायं संहतौ सभा ॥ २६ ॥ शालार्थापि पराराजामनुष्यार्थादराजकात् ॥ दासीसभं नृपसभं रक्षःसभमिमा दिशः॥ २७॥ उपज्ञोपक्रमांतश्च तदादित्वप्रकाशने ॥ कोपज्ञकोपक्रमादिकंथोशीनरनामसु ॥ २८॥ वीनां पक्षिणां छाया विच्छायमिति । इक्षुच्छायम् । बहूनामिति किम् । कुड्यछाया कुड्यच्छायमिति वा । स्त्रियां तु वक्ष्यते । संहतो समूहविषये सभाशब्दः क्लीबे । अत्रापि षष्ट्या इत्यनुवर्तते । यथा दासीनां सभा दासीसभम् । स्त्रीसममित्यादि । संहताविति किम् । दासीनां सभा दासीसभा दासीगृहमित्यर्थः ॥ २६ ॥ शालार्था गृहार्था अपिशब्दात्संहत्यर्था च या सभा सा अराजकात् राजशब्दविवर्जितात् राजामनुष्यार्थात् राजार्थात् रोजपर्यायात् अमनुष्यार्थात् रक्षआदिशब्दात्षष्ठयंतात्परा चेत् क्लीबे । शाला गृहं अर्थो ऽभिधेयो यस्याः सा शालार्था । अराजकराजपर्यायात् यथा । इनसभम् । प्रभुसभम् । अमनुष्यार्थाद्यथा । रक्षःसमम् । पिशाचसभम् । अराजकात्किम् । राजसभा । “राजपर्यायग्रहणान्नेह चंद्रगुप्तसभा । राजविशेषो ऽयम् ।" षष्ठया इति किम् । नृपतिविषये सभा नृपतिसभा। नृणां पतिर्यस्यां सा चासौ सभा चेति वा नृपतिसभा । अमनुष्यार्थादिति किम् । दासीसभा । दासीनां शालेत्यर्थः । इमा दिश इति दासीसभमित्यादीनि क्रमेण त्रीण्यु. दाहरणानीत्यर्थः । तत्र दासीसभमित्यादि तु संहतावित्यस्यैव । इतरे तु शालासंहतिसाधारणे ॥ २७॥ तयोरुपज्ञोपक्रमयोरादिलं प्राथम्यं तस्य प्रकाशने द्योतने उपज्ञांत उपक्रमांतश्च समासः क्लीबे स्यात् । उदाहरणमाह । उपज्ञायत इत्युपज्ञा । को ब्रह्मा तस्योपज्ञा कोपलं प्रजा । कस्योपक्रमः कोपक्रमं लोकः । प्रजापतिना प्रथमं सृष्टखात्तेनादावुपज्ञाता प्रजेत्यर्थः । तदादित्वेति किम् । देवदत्तोपज्ञा । मृन्मयः प्रकारः। मृत्तकारस्यानेककारणत्वात् । देवदत्तेति सामान्यशब्देन च तदादित्वप्रतिपादनाभावे क्लीबत्वाभावः । एवं देवदत्तोपक्रमो रथः । अत्रापि षष्ट्या इत्यनुवर्तते । उशीनराणां नामसु मध्ये षष्ठयंतात्परा कंथा क्लीवे । सौशमीनां कंथा सौशमिकथम् । उशीनरादन्यत्र दाक्षिकंथा । नामसु इति किम् । वीरणकंथा ॥ २८ ॥ चकार इत् अनुबंधो यस्य स चित् । नश्च णश्च कच चित्र For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy