SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. द्व्यचमसिसुसन्नंतं यदनांतमकर्तरि ॥ २४ ॥ त्रांत सलोपधं शिष्टं रात्रं प्राक्संख्ययान्वितम् ॥ पात्राद्यदतैरेकार्थी द्विगुर्लक्ष्यानुसारतः ।। २५ ।। sacarorarभावौ पथः संख्याव्ययात्परः || For Private And Personal ३६७ मतम् । स्त्री कोटिरर्बुदमिति क्रमाद्दशगुणोत्तरमिति रत्नकोश: । " असंतमिसंतमुसंतमन्नंतं च यत् द्वयचं द्विस्वरं तत् क्लीवें । असंतं यथा 1 पयः मनः । इतं यथा । सर्पिः ज्योतिः । उसंतं यथा । वपुः यजुरित्यादि । अनंतं यथा । चर्म I शर्म सामेत्यादि । अनेनैव क्लीवत्वे सिद्धे परतो यन्मर्मशब्दोपादानं तदस्यानित्यत्वज्ञापनार्थं । तेन गुणांधकार शोकेषु तमो राहौ पुमानयमित्याद्यपि सिद्धम् । अकर्तरि कर्तुरन्यत्र यदनांत अनेत्यंते यस्य तत्क्लीवे । यथा । गमनम् । मरणम् । दानम् । करणम् । वरणम् । अकर्तरीति किम् । इध्मब्रश्चनः कुठारः । नंदयतीति नंदनः रमणः ॥ २४ ॥ त्रांतं क्लीबे यथा । पात्रं वहित्रं वस्त्रं गात्रमित्यादि । सकारो कारो वा उपधा अंत्यात्पूर्वो यस्य तत् सलोपधम् । सोपधं यथा | बिसम् | अंधतमसम् । लोपधं यथा कुलं मूलमित्यादि । शिष्टमिति यदवशिष्टं प्रागुक्तादन्यत् तच्च प्रागुक्तम् । यदबाधितं तदपि त्रांतादिकं क्लीबे इत्यर्थः । शिष्टमिति किम् । पुत्रः वृत्रः हंसः कंसः पनसः शिला काल : गलः । संख्यापूर्वी रात्रशब्दः क्लीबे । रात्राह्वाहाः पुंसीति पुंस्त्वप्राप्तेरपवादो ऽयम् । संख्या पूर्वरात्रं क्लीवमिति वार्तिकं रात्रा - ह्राहा इत्यस्य बाधकम् । त्रिरात्रम् | पंचरात्रम् । संख्ययेति किम् । अर्धरात्र: मध्यरात्रः । पात्रादिभिरदंतैरेकार्थो यो द्विगुः स क्लीबे | पंचरात्रम् | आदिना चतुर्युगम् । लक्ष्यानुसारतः शिष्टप्रयोगानुगमेनेत्यर्थः । अनेन पंचमूली त्रिलोकीत्यादिरपवाद । एकार्थः किम् | पंचकपालः पुरोडाशः । द्विगुरयं तद्धितार्थः ॥ २५ ॥ द्वंद्वसमासस्यैकत्वं अव्ययीभावश्च क्लीबे । द्वंद्वैक्यं यथा । पाणिपादम् । शिरोग्रीवम् । मार्दंगिक पाणविकम् । अव्ययीभावो यथा । अधिस्त्रि । उपगंगम् । संख्याया अव्ययाश्च परः पथः क्लीबे । यथा । द्विपथम् । त्रयाणां पथां समाहारस्त्रिपथम् । चतुष्पथम् । अव्ययाद्यथा । विपथम् । कापथम् । संख्याव्ययादिति किम् । धर्मपथः । योगपथः । पथ इति समासांतानुकरणम् । समासे षष्ठीविभक्तयंतात्परा छाया क्लीबे । छायाबाहुल्ये इति पाणिनिसूत्रम् । सा चेडूनां संबंधिनी तव तदुदाहरति ।
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy