SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य 1 [धीवर्गः बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः॥ प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः॥ १ ॥ धीर्धारणावती मेधा संकल्पः कर्म मानसम् ॥ “अवधानं समाधानं प्रणिधानं तथैव च” ॥ चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा ॥ २ ॥ “विमर्शो भावना चैव वासना च निगद्यते”। अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः॥ संदेहदापरौ चाथ समौ निर्णयनिश्चयौ ॥३॥ मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिंतनम् ॥ समौ सिद्धांतराद्धांतौ भ्रांतिमिथ्यामतिभ्रमः ॥४॥ व्यक्तिः अंजूव्यक्त्यादौ क्तिन् । पृथगात्मता द्वे घटादिव्यक्तेः । चित्तं चेतः हृदयं स्वांतं हृत् मानसं मनः सप्तकंचित्तस्य । हृत् दकारांतः ॥३१॥ इति कालवर्गः॥॥ बुद्धिः मनीषा मनस ईषा ईष गत्यादिषु शकंध्वादिः । धिषणा धीः प्रज्ञा शेमुषी शेः मोहस्तं मुष्णातिमुषस्तेये शीङो विच मूलविभुजेति मुषेः कः । मतिः प्रेक्षा उपलब्धिः चित् संवित् प्रतिपत् ज्ञप्तिः चेतना चतुर्दश वुद्धेः । तत्र चित् तांतः । संवित् प्रतिपत् च दांतः ॥२॥ या धारणावती धीः सा मेधा एकम् । यन्मानसं कर्म मनोव्यापारः स संकल्पः एकम् । “अवधानादि त्रयं समाधानस्य"चित्ताभोगः मनस्कारः द्वे मनसः सुखादौ तत्परतायाः । चर्चा संख्या विचारणा त्रयं प्रमाणैरर्थपरीक्षणस्य ॥२॥ “विमर्शादित्रयं पूर्वानुभूताविस्मरणस्य"। अध्याहारः तर्कः ऊहः त्रयं तर्कस्य 'अपूर्वोत्प्रेक्षणं तर्कः"। विचिकित्सा विपूर्वात् कितेः सन्नतादकारः । संशयः संदेहः द्वापरः द्वौ परौ प्रकारौ यस्य पृषोदरादित्वादात्वम् । चत्वारि संशयज्ञानस्य । यथा स्छाणुर्वा पुरुषो वेति संशयः । निर्णयः निश्चयः द्वे निश्चयज्ञानस्य ॥३॥ मिथ्यादृष्टिः नास्तिकता द्वे परलोकाभाववादिज्ञानस्य । नास्ति परलोक इति मतिर्यस्य तस्य भावो नास्तिकता । व्यापादः द्रोहचिंतनम् । द्वे परद्रोहचिंतनस्य । सिद्धांतः राद्धांतः द्वे सिद्धांतस्य ।सिद्धो अंतो निर्णयो यस्य स सिद्धांतः। भ्रांतिः मिथ्यामतिःभ्रमः त्रयमयथार्थज्ञानस्य। स्थाणौ पुरुषोऽयमिति ज्ञानं भ्रांतिः। स्थाणुर्वापुरुषो वायमित्यनेककोटिकं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy