SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. ३६३ पथनयसटोपांता गोत्रारल्यावरणाह्वयाः॥ १४ ॥ नाम्न्यकर्तरिभावे च छत्रजब्नङ्गघाथुचः॥ ल्युः कर्तरीमनिच भावे को घोकिःप्रादितो ऽन्यतः॥१५॥ द्वंद्वे ऽश्ववडवावश्ववडवा न समाहृते ॥ कांतः सूर्यदुपर्यायपूर्वो ऽयःपूर्वको ऽपि च ॥ १६ ॥ वटकश्चानुवाकश्च रल्लकश्च कुडंगकः॥ त्वात् । स्वपो नन् । स्वप्नः । स्वप्नः संवेश इत्यपीति वा पुंस्त्वसिद्धिर्बोध्या ।" णप्रत्ययो यथा । न्यादः । घप्रत्ययो यथा । उर छदः । अथुच् । यथा । वेपथुः । ल्युरिति । कर्तरि नंद्यादिल्युः पुंसि स्यात् । यथा । नंदनः रमणः मधुसूदनः । भावे पृथ्वादिभ्यो य इमनिच स पुंसि स्यात् । यथा । पृथोर्भावः प्रथिमा महिमा । भाव इति किम् । वृणोतीति वरिमा पृथ्वी । अत्र भावे इति शब्दो देहलीदीपन्यायेन पूर्वत्र परत्र च संवध्यते । “ भावे को यथा । आखूत्थः प्रस्थः ।" प्रादितः अन्यतश्च परो यो घुसंज्ञो धातुस्तस्माद्विहितः किप्रत्ययः पुंसि स्यात् । दाप्दैपौ विना दारूपो धारूपश्च धातुर्युसंज्ञकः । प्रादितो यथा । प्रधिः निधिः आदिः । अन्यतो यथा । जलधिः । इषुधेस्तु द्वयोरिति बाधितत्वम् ॥ १५ ॥ द्वंद्वे समाहारादन्यत्र द्वंद्वसमासे ऽश्ववडवौ पुंसि । स्वयमेवोदाहरति । अश्वाश्च वडवाश्चाश्ववडवाः । एवमश्ववडवान् । अश्ववडवैरित्यादिप्रयोगः । समाहारे त्वश्ववडव. मिति क्लीबम् । सूर्यचंद्रपर्यायपूर्वकः कांतशब्दः पुंसि । यथा । सूर्यकांतः अर्ककांतः चंद्रकांतः इंदुकांतः सोमकांतः । अयोवाचकपूर्वको ऽपि कांतः पुंसि । यथा। अयस्कांतः लोहकांतः ॥ १६ ॥ इदानीं पुल्लिंगविशेषपर्यंतमनुक्तानां कांतादिक्रममनतिक्रम्याह । वटकः पिष्टकभेदः । अनुवाको वेदावयवः । रल्लकः कंबलः । कुडंगको वृक्षलतागहनम् । “ कुटंगक इत्यपि ।" पुंखो बाणावयवः । न्यूखः सामवेदे निपातित ओकारः । " न्युख इति -हस्वोकारो ऽपि । न्युंखः सम्यग्मनोज्ञे च साम्नः षट्प्रवणे ऽपि चेति मेदिनी ।" समुद्गः संपुटकः । विटो धूर्तः । "विटो द्रौ लवणे षिले मूषिके खदिरे ऽपि चेति मेदिनी ।" पट्टः काष्टादिरचित आसनविशेषः । “ पट्टश्चतुष्पथे पीठे राजादेः शासनांतरे । व्रणादिबंधने पेषाश्मनीति हैमः ।” धटस्तुला । “ धटो दिव्ये तुलायां स्याटी चीरे च For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy