SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पंत ३६४ . सटीकामरकोशस्य [लिंगादिसंग्रहवर्गः पुंखो न्यूंखः समुद्रश्च विटपधटाः खटाः॥ १७॥ कोहारघट्टहट्टाश्च पिंडगोंडपिचंडवत् ॥ गडुः करंडो लगुडो वरंडश्व किणो घुगः ॥१८॥ दृतिसीमंतहरितो रोमंथोद्गीथबुद्दाः॥ कासमयॊ ऽर्बुदैः कुंदः फेनस्तूपौ सयूपकौ ॥ १९ ॥ वासस इति मेदिनी ।" अंधकूपादयः खटाः । “ खटस्तृणे कफे । टंकेंऽधकूपे प्रहार इति हैमः" ॥ १७ ॥ कोट्टो दुर्गपुरम् । अरघट्टः कूपभेदः। " अरैश्चक्रावयवसदृशैः काष्ठविशेषैर्घटथते रच्यते सो ऽरघट्टः । राहाट इति प्रसिद्ध इत्यन्ये ।" कस्यचिन्मते टकारांतेष्वपि भट्टग्राम इति न्यायेन रेफांतो ऽपि कोट्टार इति यक्षरो निबद्धः । " कोट्टारो नागरे कृपे पुष्करिण्याश्च पाटक इति मेदिनी । घट्टः घाट इति प्रसिद्धः । हट्टः क्रयविक्रयस्थानम् । पिंडो मृदादिसंघातः। गोंडो नाभिः गोंडः पामरजातौ च वृद्धनाभौ च संमत इति रुद्रः ।" पिचंड उदरम् । “पिचिंड इत्यपि । शस्ते पिचिंड उदरे पशोरवयवे पुमानिति मेदिनी।" पिचंडवत् गडादयो ऽपि पुंसि स्युरिति वता निर्दिश्यते । गडुर्गलगंडः । "गडुः पृष्ठगुडे कुब्ज इति विश्वः ।" करंडो वंशादिकृतभांडभेदः । “करंडो मधुकोशासिकारंडेषु दलाढक इति. हैमः ।" लगुडो वंशादिदंडः । वरंडो मुखरोगः । “वरंडो वदनव्यथा । अंतरावेदिसंधौ चेति हैमः ।" किणो मांसप्रंथिभेदः । स तु खनित्रदंडादिसंघर्षणात्करतलादौ स्पष्टः । “व्रण चिन्हं च किणः ।" धुणः काष्टकृमिः । “ धुणः स्यात्काष्ठवेधक इति रत्नकोशः ।" ॥ १८॥ दृतिः चर्मपुटकः । “ दृतिश्चर्मपुटे मत्स्ये नेति मेदिनी।" सीमंतः केशवेशः । हरित्पालाशवर्णः। " हरिद्दिशि स्त्रियां पुंसि हयवर्णविशेषयोः । अस्त्रियां स्यात्तृणे चेति मेदिनी ।" रोमंथः पशूनां चर्वितचर्वणम् । उद्गीथः सामभेदः । “उद्गीथः प्रवणः सामवेदध्वनिरित्यरुणः ।" बुद्धदो जलविकारः । कासमर्दो गुल्मभेदः। “अर्बुदो दशकोटयः। अर्बुदो मांसकीले स्यात्परुषे दशकोटिषु इति मेदिनी।" अर्दनिरिति पाठे अर्दनिरग्निः । कुंदः शिल्पभांडम् । “ कुंदो ऽच्युते निधौ । चक्रभ्रमौ च माध्ये चेति हैम:।” फेनो जलविकारः । स्तूपो वटकादि । एतौ यूपश्च । “पूप इत्यपि" ॥ १९ ॥ आतपः सूर्यालोकः । क्षत्रिये नाभिः । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy