SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. अद्यात्राहयथ पूर्वे ऽहीत्यादौ पूर्वोत्तरापरात् ॥२०॥ तथा ऽधरान्यान्यतरेतरात्पूर्वेारादयः॥ उभयद्युश्चोभयेयुः परे त्वह्नि परेद्यवि ॥ २१ ॥ ह्यो गते ऽनागते ऽह्नि श्वः परश्वस्तु परे ऽहनि॥ तदा तदानीं युगपदेकदा सर्वदा सदा ॥ २२ ॥ एतर्हि संप्रतीदानीमधुना सांप्रतं तथा ॥ दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः॥ २३॥ ॥ इत्यव्ययवर्गः॥ इतरस्मिन्नहनीतरेयुः । कष्टदिनादितरेयुः प्रियो द्रष्टव्यः" ॥२०॥ उभयद्युः । उभयेद्युः द्वे उभयस्मिन्नहनीत्यर्थे । धुश्चोभयात् वक्तव्य इति वार्तिकेणोभयशब्दात् द्युः प्रत्ययः । चकारात् एद्युः प्रत्ययश्च । “उभयद्युरुपोषणम्।" परेद्यवीत्येकं परेऽहनि। "मित्रं दृष्टं परेद्यवि" ॥ २१॥ ह्य इत्येकं गते ऽहनि । “ह्यः सर्वमभवत्कार्यं।" श्व इत्येकमनागते आगामिन्यहनि । ततःपरे ऽहनि परश्व इत्येकम् । “ श्वः परश्वश्च यथा । अद्य श्वो वा परश्वो वा सर्व कर्म भविष्यति । परश्वस्तत्परेऽहनीति पाठांतरम् ।" तदा तदानी द्वे तस्मिन्काल इत्यर्थे । “ यथा । तदा चक्षुष्मतां प्रीतिः । यदा स्यात्प्रियया संगस्तदानीमेव मे सुखम् ।” युगपत् । एकदा एकस्मिन्काल इत्यर्थे । “ यथा । शत्रुमित्रोदासीनाः युगपदाहूताः । गवां शतमेकदा दत्तम् ।" सर्वदा सदा द्वे सर्वस्मिन्काले इत्यर्थे । यथा । " सर्वदा सर्वदोऽसीति । याचते याचकः सदा" ॥ २२ ॥ एतर्हि संप्रति इदानीं अधुना सांप्रतं पंचकमस्मिन् काल इत्यर्थे । “यथा । एतर्हि क्रियते कार्य । संप्रत्यसौ गृहं याति । इदानीमस्मि संवृत्तः । बलावलेपादधुना । तत्रास्ते सांप्रतं मुनिः ।" तथेति समुच्चये । पूर्वादौ दिशि । पूर्वादौ देशे। पूर्वादौ काले वा प्रागादयः स्युः । “दिशि प्राग्दिगित्यादि । देशे प्राग्देश इत्यादि । काले प्राकाल इत्यादि ।” पूर्वादौ इत्यादिशब्देनोत्तरपश्चिमदक्षिणाधरो/दीनां ग्रहणम् । प्रत्यगादय इत्यादिशब्देन त्ववागित्यादिग्रहः । " उत्तरात् अधरात् दक्षिणात् उत्तरेण अधरेण दक्षिणेन दक्षिणा दक्षिणाहि दक्षिणतः उत्तरतश्च संगृह्यते।" ऊर्वे तूपरि उपरिष्टादिति ॥२३॥ इत्यव्ययवर्गः॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy