SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. २९ प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥ २७ ॥ दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः ॥ हेतुर्ना कारणं बीजं निदानं त्वादिकारणम् ॥ २८ ॥ क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम् ॥ विशेषः कालिकोsवस्था गुणाः सत्वं रजस्तमः ॥ २९ ॥ जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः ॥ प्राणी तु चेतनो जन्मी जंतुजन्युशरीरिणः ॥ ३० ॥ जातिर्जातं च सामान्यं व्यक्तिस्तु ष्टथगात्मता ॥ चित्तं तु चेतो हृदयं स्वांतं हृन्मानसं मनः ॥ ३१ ॥ ॥ इति कालवर्गः ॥ ६ ॥ द्रव्ये एव लिंगांतरेण सामानाधिकरण्ये ऽपि स्वलिंगं न जहति । प्रशंसावचनैश्चेति कृष्णसर्पवाप्यश्वादिवत् नित्यसमासः । यथा प्रशस्तो ब्राह्मणो ब्राह्मणमतल्लिका | प्रशस्ता गौर्गोमचर्चिका । गोप्रकांडं । ब्राह्मणोद्धः । कुमारीतल्लजः । अयः एत्यनेन सुखम् इगतौघप्रत्ययः । शुभावहो विधिः शुभोत्पादकं दैवं सोऽय उच्यते भयोऽकारांत : एकम् ||२७|| दैवं दिष्टं भागधेयं भाग्यं नियतिः नियम्यतेऽनया क्तिन् । नियतिर्नियमे दैवे इति विश्वः । विधिः षटुं प्राक्तनकर्मणः । नियतिः स्त्री । विधिः पुंसि । हेतुः कारणं बीजं त्रयं हेतुमात्रस्य । हेतुः पुंसि । यदादिकारणं तन्निदानं एकमुपादानकारणस्य ॥ २८ ॥ क्षेत्रज्ञः क्षीयते इति क्षेत्रं शरीरं तज्जानाति ज्ञा अवबोधने आतो नुपेति कः । आत्मा पुंसि स्वभावेऽपि प्रयत्नमनसोरपि । धृतावपि मनीषायां शरीरब्रह्मणोरपि ।। १ ।। पुरुषः त्र्यं शरीराधिदैवतस्य । प्रधानं प्रकृतिः द्वे सत्वादिगुणसाम्यावस्थायाः । यः कालिको विशेषः कालकृतो देहादेर्विशेषः यौवनादि - रवस्थोच्यते एकम् । सत्वं रजः तमः एते गुणाः प्रकृतेर्धर्माः एकैकम् । रजस्तमसी सांते ||२९|| जनुः जननं जन्म जनिः उत्पत्तिः उद्भवः षटुं जन्मनः । जनुः सांतम् । जनिः स्त्री । प्राणी चेतनः जन्मी जंतुः जन्युः शरीरी षङ्कं प्राणिनः ॥ २० ॥ जातिरित्यादि पद्यं केचिदत्र पठति “ इति टीकाकारेण लिखितं परंतु मूल एवैतत्पद्यं दृश्यते । " जातिः जातं सामान्यं त्रयं घटत्वादिजातेः । व्यक्तिः व्यज्यते ऽनया For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy