SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [अव्ययवर्गः यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन ॥ ३॥ कदाचिज्जातु सार्धं तु साकं सत्रा समं सह ॥ आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा ॥४॥ आहो उताहो किमुत विकल्पे किं किमूत च ॥ तु हि च स्म ह वै पादपूरणे पूजने स्वति ॥५॥ दिवाहीत्यथ दोषा च नक्तं च रजनाविति ॥ तिर्यगर्थे साचि तिरो ऽप्यथ संबोधनार्थकाः॥६॥ स्युः प्याट् पाडंग हे है भोः समया निकषा हिरुक् ।। रिणां भुवि । ऋते पुण्यात्स्वर्गतिर्न । हिरुक् कर्म न मोक्षः स्यात् । विष्णुं नाना मोक्षदो नास्ति देवः।" यत् तत् यतः ततः चत्वारि हेतौ कारणे। “यथा । यन्न रम्यं तरस्विभ्यः । तदिदं परिरक्ष शोभने । यतो गंगांभसि स्त्रातः । ततो निष्कल्मषो नरः।" चित् चन द्वयं असाकल्ये । यथा कश्चित् । कंचन ॥२॥ कदाचित् जातु द्वे कस्मिंश्चित्काले । “ स्मृतिः कदाचित् भवति । ज्ञानं ते जातु सूत्तमम् ।” सार्ध साकं सत्रा समं सह पंचकं सहेत्यर्थे । “यथा। सार्धं दानववैरिणा। पत्न्या साकं पतिर्भुक्ते। सत्रा कलत्रेण सुखं समभुते । समं वधूभिस्तरुणा रमंते । विश्वासधूमं सह रत्नभाभिः ।" प्राध्वमित्येकमानुकूल्ये । वृथा मुधा द्वे व्यर्थके । “ यथा । वृथा पुष्टः । बुधा मुधा भ्रमंत्यत्र"॥४॥ आहो उताहो किमुत किं किमु उत षट् विकल्पे । “ यथा । देव आहो गंधर्वः । उताहो ब्रह्म चोच्यते । किमुत त्वं शिवो ब्रह्मा । स्थाणुरयं किं पुरुषः । गृहं किमु वनं गतः । विष्णुरुत शिवः सेव्यः।" तु हि च स्म ह वै षट् श्लोकचरणपूर्णतायाम् । “यथा । रामस्तु लक्ष्मणं प्राह । अहं हि यास्ये नगरम् । स च प्राह च राजानम् । मया स्म भुक्तम् । स ह तं प्राह लक्ष्मणः । तेन वै हतः।" सु अति द्वे पूजने । “ सु स्तुतम् । अत्युत्तमः " ॥५॥ अह्रीत्यर्थे दिवाशब्दः । दोषा नक्तं द्वे रात्रावित्यर्थे । “ यथा । चोराश्च दोषा ययुः । नक्तं गृहस्थो भुंजीत । " साचि तिरः द्वे तिर्यगर्थे । “ कृतं साचि धनुस्तेन । तिरो गत्वा समीक्षेत"॥६॥ प्याट् पाट् अंग हे है भोः एते षट् संबोध. नार्थकाः स्युः । “ यथा । प्याट् भीम यज्ञं रक्षस्व । एवं. पाडित्यादि ।" समया निकषा हिरुक् त्रयं सामीप्ये । यथा ग्राम समया । विलंध्य लंकां निकषा हनि For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy