SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३४० सटीकामरकोशस्य [नानार्थवर्गः ऊर!री चोररी च विस्तारें ऽगीकृतौ त्रयम् ॥ खर्गे परे च लोके वर्वार्तासंभाव्ययोः किल ॥ २५३ ॥ निषेधवाक्यालंकारजिज्ञासानुनये खलु ॥ समीपोभयतःशीघ्रसाकल्याभिमुखे ऽभितः॥ २५४ ॥ नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि ॥ तिरों ऽतौ तिर्यगर्थे हा विषादशुगर्तिषु ॥ २५५ ॥ - अहहेत्यद्भुते खेदे हि हेताववधारणे ॥७॥ इति नानार्थवर्गः॥ दीर्घादिः शब्दः । उररीत्यपरो म्हस्वादिरिति भेदाद्विरुक्तिः । “ विस्तारें ऽगीकृतौ च ऊरर्यादित्रयम् । यथा ऊररी करोतीत्यादि । स्वः स्वर्गे । यथा स्वर्णद्यां नाति नारदः ।" परे इति लोकविशेषणम् । “परे लोके यथा । स्वर्गतस्य क्रिया कार्या पुत्रैः परमभक्तितः ।" स्वः स्वर्गपरलोकयोरिति विश्वः । वार्तायां यथा । जघान कंसं किल वासुदेवः । संभाव्यं संभावनीयम् । “ तत्र यथा । गुरून्किलातिशेते शिष्यः । किल शब्दस्तु वार्तायां संभाव्यानुनयार्थयोरिति विश्वः । किल संभाव्यवार्तयोः । हेत्वरुच्योरलोके चेति हैमः ॥ २५३ ॥ निषेधे खलु । यथा खलु रुदित्वा । वाक्यालंकारे वाक्यभूषायां एतत्खल्वाहुः । जिज्ञासायां यथा । खलु जानासि ।अनुनये यथा। देहि खलु वाचकम् । “खलु स्याद्वाक्यभूषायां जिज्ञासायां च सांत्वने ॥ वीप्सामाननिषेधेषु पूरणे पदवाक्ययोरिति मेदिनी।" समीपादिपंचकेऽभितः । “ समीपे यथा । वाराणसीमभितः भागीरथी । ” उभयत इत्युभयार्थे । यथा । अभितः कुरु चामरौ । शीघ्रार्थे यथा । अभितो ऽधीष्व । साकल्ये यथा । अभितो वनदाहः । “अभिमुखे यथा । अभितो हिंस्रको हंति मामेव परिधावति" ॥ २५४ ॥ नाम्नि प्राकाश्ये च प्रादुः । “ नाम्नि यथा । प्रादुरासीचक्रपाणिः ।" प्राकाश्ये यथा । प्रादुर्बुद्धिर्भविष्यति । “ अन्योन्यार्थे मिथो यथा। वासिष्ठकौंडिन्यमैत्रावरुणानां मिथो न विवाहः ।" रहसि मिथो यथा । मिथो मंत्रयते । मिथो ऽन्योन्यं मिथो रह इति विश्वः ।अंतर्धाने तिर्यगर्थे च तिरः। “अंतर्धाने यथा । तिरोभूयास्ते । तिर्यगर्थे यथा । तिरोवर्तते चंद्रः ।" विषादाद्यर्थत्रये हाकारः । विषादे यथा । हा रमणीयो गतः कालः। शुचि शोके। यथा।हा राम वनं गतो ऽसि । अौ पीडायां यथा । हा हतो ऽस्मीति । “ कुत्सार्थे च हा शब्दः" ॥२५५॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy