SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - तृतीयं कांडम्. ३४७ नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने ॥ २५०॥ अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ॥ हुँ वितर्के परिप्रश्ने समयांतिकमध्ययोः॥ २५१ ॥ पुनरप्रथमे भेदे निनिश्चयनिषेधयोः॥ स्यात्प्रबंधे चिरातीते निकटागामिके पुरा ॥ २५२ ॥ स्तुतौ । मौनलंघनयोश्चापीति हैमः । पृच्छायां किं । यथा । किमाद्रियेरन् रसिकाः कृतिं ते ।" जुगुप्सने किं । यथा । स किं राजा यः प्रजां न रक्षति । "किं वितर्के परिप्रश्ने क्षेपनिंदाप्रकारयोरिति विश्वः।" प्राकाश्यादिपंचके नामशब्दः। प्राकाश्यं प्रसिद्धिः । यथा । हिमालयो नाम नगाधिराजः । संभाव्ये कथंचिदर्थे यथा । भविष्यति युद्धं नाम । क्रोधे यथा। मम वैरी रावणो नाम पापः । उपगमः सद्वेषांगीकारः । “यथा । शत्रोः सकाशाद्हाति नाम । कुत्सने यथा । को नामायं प्रलपति मे विशतः सभायाम् । नाम कोपेऽभ्युपगमे विस्मये स्मरणे ऽपि च । संभाव्यकुत्साप्राकाश्यविकल्पेष्वपि दृश्यत इति मेदिनी" ॥ २५० ॥ भूषणमलंकारः पर्याप्तिः परिपूर्णता । शक्तिः सामर्थ्य । वारणं चैतदर्थे ऽलंशब्दः क्रमेण । यथा । अलंकृतः शिशुः । अलं भुक्तवान् । अलं मल्लो मल्लाय । अलं महीपाल तव श्रमेण । “ अलं निरर्थके इति हैमः।" वितर्कपरिप्रश्नयोहंकारः । “ वितर्के हुं जलं मृगतृष्णा हुँ। परिप्रश्ने हुं देवदत्तोऽयम् । हुं वितर्के चानुमताविति त्रिकांडशेषः।" हुँ वितर्के परिप्रश्ने हुं रुषोक्त्यनुनीतिष्विति विश्वः । “हुँ वितर्के परिप्रश्ने हुं लज्जायां निवारणे इति हैमः।" समीपमध्ययोः समया । “ समीपे यथा। समया पत्तनं नदी । मध्ये यथा । समया शैलयोामः " ॥ २५१ ॥ प्रथमाभावे यथा । पुनरुक्तम् । भेदे यथा। किं पुनर्ब्राह्मणाः पुण्याः । “पुनरप्रथमे मतम् । अधिकारे च भेदे च तथा पक्षांतरे ऽपिचेति मेदिनी।" निश्चये निर्यथा ।निरुक्तम्।निषेधे निर्धनो राजा । " निनिश्चये क्रांताद्यर्थे निःशेषप्रतिषेधयोरिति हैमः ।" प्रबंधादिषु पुराशब्दः । प्रबंधे यथा । पुराधीते । अविरतमपाठीदित्यर्थः । चिरंतनं । पुराणमिति यावत् । तत्र यथा । पुरातनं अतीतं भूतम् । निकटः सन्निहितः। आगामिकं भावि । पुरा पुराणे निकटे प्रबंधातीतभाविष्विति विश्वमेदिन्यौ ॥ २५२ ॥ ऊररीत्येको For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy