SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. ___ ३३९ स्यादृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् ॥ प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना धृतिः॥ २२३ ॥ त्विट् शोभापि त्रिषु परे न्यक्ष कात्य॑निकृष्टयोः॥ प्रत्यक्षे ऽधिकृते ऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे ॥ २२४ ॥ इति षांताः॥ रविश्वेतच्छदौ हंसौ सूर्यवन्ही विभावसू ।। वत्सौ तर्णकवर्षों दौ सारंगाच दिवौकसः॥ २२५॥ शृंगारादौ विषे वीर्ये गुणे रागे द्रवे रसः॥ पुंस्युत्तंसावतंसौ दो कर्णपूरे च शेखरे ॥ २२६ ॥ लोकधातुर्जबुद्वीपस्तस्यांशे भारतादिखंडे । वत्सरे ऽब्दे वर्षशब्दः स्यात् । नृत्येक्षणं प्रज्ञा चेति द्वयं प्रेक्षासंज्ञम् । “प्रेक्षा धोरीक्षणं नृत्तमिति हैमादीक्षणं नृत्यं चेति पृथगपि । " अर्थना याच्या । भृतिवेतनम् । “ भिक्षितवस्तुनि च भिक्षा" ॥ २२३ ॥ अपिशब्दात्कांतौ वाचि रुचौ त्विट् स्त्रीति रभसः । परे वक्ष्यमाणास्त्रयः शब्दात्रिषु वाच्यलिंगा इत्यर्थः । कात्स्न्र्ये साकल्ये । निकृष्टेऽधमे । परशुरामो ऽपि न्यक्षः।न्यक्षः परशुरामे स्यात् न्यक्षः कात्यनिकृष्टयोरिति कोशांतरात् । “नियतानि अक्षाणि हृषीकाणि यस्मिन् न्यक्षः।" प्रत्यक्षे साक्षात्प्रमिते अधिकृते नियुक्ते ऽध्यक्षः। “अधिकृतान्यक्षाण्यस्याध्यक्षः।" अप्रेम्णि स्नेहाभावे । अचिकणे अमसृणे॥२२४॥ इति षांताः॥अथ सांतानाह । श्वेतच्छदो विहगभेदः । “ हंसः स्यान्मानसौकसि।निर्लोभनृपविष्ण्वर्कपरमात्मन्यमत्सरे। योगिभेदे मन्त्रभेदे शरीरमरुदंतर इति मेदिनी।" तर्णको गोवत्सः । "वत्सः पुत्रादिवर्षयोः। तर्णके नोरसि क्लीवमिति मेदिनी ।" सारंगाश्चातकाः । देवा अपि दिवौकसः । " दिवोकाश्च दिवौकाश्च पुंसि देवे च चातक इति द्विरूपकोशः" ॥ २२५ ॥ श्रृंगारादौ श्रृंगारवीरकरुणादौ नवविधे । विषे गरले। वीर्ये तेजसि । गुणे स्वाद्वम्लादौ। रागे द्रवे रसशब्दः स्यात् । यथा रागे। रसिको युवा । “रसो गंधरसे जले । शृंगारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः। देहधातुप्रभेदे च पारदस्वादयोः पुमानिति मेदिनी।" उत्तंसश्चावतंसश्चेति सांतद्वयं कर्णपूरे कर्णाभरणविशेषे शेखरे शिरोभूषणे च वर्तते ॥ २२६ ॥ देवभेदे यथा । अष्टौ वसवः । धनरत्नयोर्वसु क्लीबम् । “वसुर्ना For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy