SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३३६ सटीकामरकोशस्य [नानार्थवर्गः स्त्रीकटीवस्त्रबंधे ऽपि नीवी परिपणे ऽपि च ॥ शिवा गौरीफेरवयोवं कलहयुग्मयोः॥२११ ॥ द्रव्यासुव्यवसायेषु सत्वमस्त्री तु जंतुषु ॥ क्लीबं नपुंसकं पंढे वाच्यलिंगमविक्रमे ॥ २१२॥ इति वांताः॥ द्वौ विशौ वैश्यमनुजौ दौ चराभिमरौ स्पशौ।। द्वौ राशी पुंजमेषाद्यौ द्वौ वंशौ कुलमस्करौ ॥ २१३॥ रहःप्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः॥ कृतांते पुसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु ॥ २१४ ॥ अपिना" वणिजां मूलधने नीवी । “नीवी स्त्री कटिवस्त्रबंधने । मूलद्रव्ये परिपण इति हैमः।" फेरवः सृगालः । “शिवा झाटामलोमयोः। फेरौ शम्यां पथ्याधाज्योरिति हेमचंद्रः ।" युग्मे द्वये । “ द्वंद्व रहस्ये कलहे तथा मिथुनयुग्मयोरिति विश्वः" ॥ २११ ॥ द्रव्ये वस्तुनि । असुषु प्राणेषु । व्यवसाये वीर्यातिशये । यथा सत्ववान् । जंतुषु सत्वमस्त्रियाम् । “ सत्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः । पिशाचादावात्मभावे बले प्राणेषु जंतुष्विति हेमचंद्रः । षंढे तृतीयप्र. कृतौ क्लीबमिति बकारांतं नाम नपुंसकं नपुंसकलिंगे।" अविक्रमे ऽलसे क्लीबो "वाच्यालिंगः ।" बवयोः सावादस्यात्र पाठः । “अस्त्री नपुंसके क्लीबं वाच्यलिं. गमविक्रम इति रुद्रः ॥ क्लीबो ऽपौरुषषंढयोरिति हैमः । क्लीवं स्यात्पंढके न स्त्री वाच्यलिंगस्त्वविक्रम इति मेदिनी" ॥२१२॥ इति वांताः ॥ अथ शांतानाह ॥ मनुजो मनुष्यः । “विट् स्मृतो वैश्यमनुजप्रवेशेषु मनीषिभिरिति विश्वः ।” चरो गूढपु. रुषः। अभिमरो युद्धं तत्र स्पशो ऽदंतः। आद्यशब्दाहृषभादिरपि राशिः । मस्करो वेणः । “वंशः संघे ऽन्वये वेणौ पृष्ठाद्यवयवे ऽपि चेति हैमः" ॥ २१३ ॥ रहो विजनः । “ विकाश इत्यपि । विकाशो रहसि व्यक्त इति हैमः ।" भृतिवेतनम् । “ भोग उपभोगः । मर्छने च निर्वेशः ।” कृतांतो यमः । क्षुद्रः कृपणः । कर्षकः कृषीवलः । " कीनाशः कर्षकक्षुद्रोपांशुधातिषु वाच्यवत् । यमे नेति मेदिनी" ॥ २१४ ॥ पदे व्याजे । अपदेशः स्मृतो लक्ष्ये निमित्त For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy