SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. भावः सत्ताखभावाभिप्रायचेष्टात्मजन्मसु ॥ २०६॥ स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने॥ अविश्वासे ऽपन्हवे ऽपि निकृतावपि निह्नवः ॥ २०७॥ उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः॥ अनुभावः प्रभावे च सतां च मतिनिश्चये ॥ २०८॥ स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये ॥ शूद्रायां विप्रतनये शस्त्रे पारशवो मतः॥२०९ ॥ ध्रुवो भभेदे क्लीबं तु निश्चिते शाश्वते त्रिषु ॥ खोज्ञातावात्मनि खं त्रिष्वात्मीये स्त्रोऽस्त्रियां धने ॥२१०॥ सत्तादिषटे भावः । सत्तायां यथा । घटभावः पटभावः । आत्मनि यथा । स्वभावं भावयेद्योगी । “क्रियालीलापदार्थेषु विभूतिबुधजंतुषु रत्यादौ च भावः । केचित् सत्तास्थाने स्वत्वमिति पठंति" ॥ २०६ ॥ उत्पादे उत्पत्तौ । गर्भमोचने प्रसूतौ प्रसवः । “ अपत्ये च प्रसवः ।" अपह्नवे अपलापे । निकृतौ शाठये ॥२०७॥ उत्सेक उद्गतिः । अमर्षः कोपः । इच्छायाः प्रसरो वेगः । महः क्षण आनंदावसर इति यावत् । एतेषु उत्सवः । सतां मतेर्ज्ञानस्य निश्चये यथा । महानुभावा इति । " भावसूचने चानुभावः" ॥ २०८ ॥ आद्योपलब्धये प्रथमज्ञानाय यत्स्थानम् । “यश्च जन्महेतुस्तत्र प्रभवः । जन्महेतुः पित्रादिः । स्थानं यथा । गंगाप्रभवो हि. मवान् । गंगाज्ञानस्य प्रथमस्थानं हिमवानित्यर्थः । जन्ममूलमपि प्रभवः । यथा वाल्मीकिः काव्यप्रभवः ।" प्रभवो जन्ममूले स्याज्जन्महेतौ पराक्रमे । ज्ञानस्य चादिमस्थान इति मेदिनी । शूद्रायां विप्राज्जाते तनये शस्त्रे परश्वधाख्ये पारशवः। पारशवः पुमानित्यपि पाठांतरम् ॥ २०९ ॥ भभेदे नक्षत्रविशेषे ध्रुवः पुंसि । निश्चिते अवधारिते ध्रुवं क्लीबम् । यथा ध्रुवं मूर्खः । शाश्वते नित्ये ध्रुवस्त्रिषु । यथा जातस्य हि ध्रुवो मृत्युधुवं जन्म मृतस्य चेति । “ ध्रुवः शंकौ हरे विष्णौ वटे चोत्तानपादजे । वसुयोगभिदोः पुंसि क्लीबं निश्चिततर्कयोरिति मेदिनी।" ज्ञातौ सगोत्रे आत्मनि क्षेत्रज्ञे स्वः पुंसि । आत्मीये स्वसंबंधिनि । “स्वं त्रिलिंगम् । धनेस्वः पुन्नपुंसके" ॥२१०॥ स्वीकट्यां यो वस्त्रस्य बंधस्तत्र । परिपणे “राजपुत्रादेबंधके । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy