SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३३४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ नानार्थवर्ग: २०१ ॥ और्वानले ऽपि पातालं चैलं वस्त्रे ऽधमे त्रिषु ॥ कुकूलं शंकुभिः कीर्णे श्वभ्रे ना तु तुषानले || निर्णीते केवलमिति त्रिलिंगं त्वेककृत्स्नयोः ॥ २०२ ॥ पर्या शिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु ॥ प्रवालमंकुरे ऽप्यस्त्री त्रिषु स्थूलं जडे ऽपि च ॥ २०३॥ करालो दंतुरे तुंगे चारौ दक्षे च पेशलः ॥ मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः ॥ २०४ ॥ इति लताः ॥ वदावौ वनारण्यवन्ही जन्महरौ भवौ ॥ मंत्री सहायः सचिवौ पतिशाखिनरा धवाः ॥ २०५ ॥ अवयः शैलमेषार्का आज्ञाव्हानाध्वरा हवाः ॥ " “ विवरे पातालम् ।" पातालं नागलोके स्याद्विवरे वाडवानले । वस्त्रे चैलं क्लीबं अधमे त्रिषु । स्त्रीत्वे तु चैली । “ चेलमित्यपि पाठः ॥ २०९ ॥ शंकुभिः कीर्णे hi व गर्ते कुकूलम् । तुषाग्नौ कुकूलः । निर्णीते निश्चिते यथा । केवलं मूर्खः । एकस्मिन्यथा । केवलोऽयं व्रजति । कृत्स्ने यथा । केवला भिक्षवः । स्त्रीलिंगे केवली । “ केवलः कुहने पुमानिति मेदिनी " २०२ || पर्याप्तिः सामर्थ्यं । शिक्षिते कुशलं त्रिषु । यथा कुशला कुलवधूः । प्रवालो ऽस्त्री किसलयं वीणा दंडे च विद्रुम इति मेदिनी । स्थूलं पीवरे ऽपि त्रिषु । “स्थूलं कूटे ऽथ निष्प्रज्ञे पीवरे चान्यलिंगक इति मेदिनी " ॥ २०३ ॥ दंतुरे उन्नतदंतयुक्ते । यथा दंष्ट्राकरालः । तुंगे उन्नते । " करालो दंतुरे तुंगे भीषणे चाभिधेयवत् । स सर्जरसतैले ना क्लीबं कृष्णकुठेरक इति मेदिनी ।” चारुदक्षयोः पेशलः । “बालो ऽज्ञे ऽश्वेभपुच्छयोः । शिशौ हीबेरकचयोरिति हैमः ।" सतृष्णः साकांक्षः || २०४ || इति लांताः || अथ वांतानाह । वनं काननम् । अरण्यवन्हिः वनाग्निः । तत्र वांतौ दवदावौ । भवः क्षेमे च संसारे सत्तायां प्राप्तिजन्मनोरिति मेदिनी । मंत्री प्रधानम् । सहायः सखा एतयोरर्थे सचिव शब्दः । पतिर्भर्ता । शाखी वृक्षभेदः । नरो मनुष्यः एते धवाः । “धवो धूर्ते नरे पतौ । द्रुभेद इति हैमः " ॥ २०५ ॥ “ अविर्नाथे रवौ मेषे शैले मूषिककंबल इति मेदिनी । ” आज्ञादयस्त्रयो हवसंज्ञाः । आव्हानं हूतिः । अभ्बरो यज्ञः । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy