SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. उपयुदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः॥ १८९॥ एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥ खादुप्रियौ तु मधुरौ क्रूरौ कठिननिर्दयौ ॥ १९॥ उदारो दाढमहतोरितरस्त्वन्यनीचयोः॥ मंदस्वच्छंदयोः खैरः शुभ्रमुद्दीप्तशुक्लयोः॥ १९१ ॥ इति संताः॥ चूडा किरीट केशाच संयता मौलयस्त्रयः।। द्रुमप्रभेदमातंगकांडपुष्पाणि पीलवः ॥ १९२ ॥ कृतांतानेहसोः कालश्चतुर्थे ऽपि युगे कलिः॥ स्यात्कुरंगे ऽपि कमलः प्रावारे ऽपि च कंबलः।। १९३॥ करोपहारयोः पुंसि बलिः प्राण्यंगजे स्त्रियाम् ॥ चानुत्तरः । श्रेष्ठे तु न विद्यमान उत्तरः श्रेष्ठो यस्मादिति विग्रहः ॥ १८९॥ दूरादयस्त्रयः पराः अनात्मा आत्मनो ऽन्यः । “ परः श्रेष्ठारिदूरान्योत्तरे क्लीबं तु केवल इति मेदिनी ।" रसे च मधुरः । क्रूरस्तु कठिने घोरे नृशंसे त्वभिधेयवदिति विश्वः ॥ १९० ॥ दक्षिणे चोदारखिषु । उदारो दातृमहतोदक्षिणे चाभिधेयवदिति कोशांतरात् । नीचः पामरः । स्वच्छंदः स्वाधीनः । प्रदीप्ते शुक्ले च शुभ्रम् । “शुभ्रं स्यादभ्रके क्लीबमुद्दीप्तशुक्लयोस्त्रिष्विति मेदिनी" ॥ १९१॥ इति रांताः ॥ अथ लांतानाह । चूडा शिखा । किरीटं मुकुटम् । संयता बद्धा ये च केशास्ते त्रयो मौलयः। त्रय इति मौलेः पुंस्त्वसूचनायोक्तम् । “ मौलिः किरीटे धम्मिल्ले चूडायामनपुंसकम् । ना ऽशोकद्रौ स्त्रियां भूमाविति तु मेदिनी ।" पीलुः पुमान् प्रसूने स्यात्परमाणौ मतंगजे । अस्थिखंडे च तालस्य कांडपादपभेदयोरिति मेदिनी । मातंगो गजः । कांडो बाणः ॥ १९२ ॥ अनेहाः समयः । “ कालो मृत्यौ महाकाले समये यमकृष्णयोरिति मेदिनी।" कलहे ऽपि कलिः । “ कलिः स्त्री कलिकायां ना शूराजिकलहे युग इति मेदिनी । अपिशब्दात्कमलं सलिले ताने जलजे व्योनि भेषजे ।" प्राब्रियत इति प्रावारः । सानायां नागराजे ऽपि कृमावपि च कंबलः ॥ १९३ ॥ करो राजदेयभागः । उपहार उपचारः । तत्र बलिः पुंसि । " दैत्यप्रभेदे च बलिः ।" प्राण्यंगजे त्वक्संकोचे बलिः स्त्रियाम् । स्थौल्यादित्रये For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy