SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३३० सटीकामरकोशस्य [नानार्थवर्गः छिद्रात्मीयविनाबहिरवसरमध्ये ऽतरात्मनि च ॥१८६॥ मुस्ते ऽपि पिठरं राजकशेरुण्यपि नागरम् ॥ शाबरं वंधतमसे घातुके भेद्यलिंगकम् ॥ १८७॥ गौरो ऽरुणे सिते पीते व्रणकार्यप्यरुष्करः॥ जठरः कठिने ऽपि स्यादधस्तादपि चाधरः ॥ १८८॥ अनाकुले ऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले ॥ यथा । अंतरे शाटकाः परिधानीया इत्यर्थः । अंतों यथा । पर्वतांतरितो रविः । भेदे यथा । यदंतरं सर्षपशैलराजयोः । तादर्थं यथा । त्वदंतरेण ऋणमेतम् । छिद्रे यथा । परांतरे प्रहर्तव्यम् । आत्मीये यथा । अयमत्यंतरो मम । विनार्थे यथा । अंतरेण पुरुषकारमिति । बहिर्यथा । अंतरे चंडालगृहाः । बाह्या इत्यर्थः । अवसरे यथा । अंतरंग: सेवकः । मध्ये यथा । आवयोरंतरे जातः पर्वतः । अंतरात्मनि यथा । दृष्टों ऽतरे ज्योतीरूपः । चकारात्सादृश्ये यथा । हकारस्य घकारों ऽतरतमः ॥ १८६ ॥ पिठरशब्दः मुस्ते मुस्तके । अपिशब्दान्मंथाने । पिठरः स्थाल्यां ना क्लीबं मुस्तमंथानदंडयोरिति मेदिनी । राजकशेरु जलजतृणमूलं " नागरमोथा इति ख्यातम् ।" नागरं मुस्तके शुंठ्यां विदग्धे नगरोद्भव इति मेदिनी । अंधतमसे गाढांधकारे । घातुके हिंस्र शार्बरशब्दः । “ धातुकेभे नृलिंगकमित्यपि पाठः । घातुकश्वासाविभश्च तत्र पुल्लिंगमित्यर्थः " ॥ १८७॥ " गौरः पीते ऽरुणे श्वेते विशुद्धे चाभिधेयवत् । ना श्वेतसर्षपे चंद्रे न द्वयोः पद्म केसर इति मेदिनी ।" भल्लातकफले ऽप्यरुष्करः । “अरुष्करो व्रणकृति त्रिषु भल्लातके पुमानिति मेदिनी। व्रणकार्येऽप्यरुष्कर इत्यपि पाठः।" उदरे ऽपि जठरः। "जठरः कुक्षिवृद्धयोरिति हैमः ।” अधस्तादनू ओष्ठे ऽपि “ हीने ऽपि च" अधरः ॥ १८८ ॥ अनाकुले स्वस्थे । अपिशब्दादेकताने ऽपि । व्यासक्ते द्विधा व्यापते । आकुले ऽनेकार्थन्यस्तचित्ते व्यग्रः। उपर्यादित्रये उत्तरः । उपरि यथा । इत उत्तरम् । उदीच्ये यथा । नर्मदोत्तरे विक्रमशकः । श्रेष्ठे यथा । मुनिकूत्तरो वसिष्ठः । “उत्तरं प्रतिवाक्ये स्यादृोदीच्योत्तमे ऽन्यवत् । उत्तरस्तु 'विराटस्य तनये दिशि चोत्तरेति विश्वः।" एषामुपर्यादीनां विपर्यये वैपरीत्ये श्रेष्ठे For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy