SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३२६ सटीकामरकोशस्य [नानार्थवर्ग: दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम् ॥ महारण्ये दुर्गपथे कांतारं पुनपुंसकम् ॥ १७ ॥ मत्सरो ऽन्यशुभदेषे तद्वत्कृपणयोस्त्रिषु ॥ देवाइते वरः श्रेष्ठे त्रिषु क्लीबं मनाप्रिये ॥ १७२ ॥ वंशांकुरे करीरो ऽस्त्री तेरुभेदे घटे च ना ॥ ना चमूजघने हस्तसूत्रे प्रतिसरो ऽस्त्रियाम् ।। १७३ ॥ यमानिलेंद्रचंद्रार्कविष्णुसिंहांशुवाजिषु ॥ शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ १७४ ॥ शर्करा कर्परांशे ऽपि यात्रा स्याद्यापने गतौ ॥ दुरोदरश्चतुरक्षरः । द्यूते दुरोदरं क्लीबम् । दुर्गपथे दुर्गमवर्त्मनि । “ कांतारो ऽस्त्री महारण्ये बिले दुर्गमवर्त्मनि । पुंसि स्यादिक्षुभेद इति मेदिनी" ॥ १७१ ॥ अन्यशुभद्वेषे परसंपत्त्यसहने मत्सरः पुंसि । तद्वति मात्सर्ययुक्ते कृपणे च मत्सरो ऽभिधेयलिंगकः । देवाद्देवसकाशाद्वृते ऽभीप्सिते वरः पुंसि । श्रेष्ठे त्रिषु । मनाकप्रिये ईषदिष्टे क्लीबम् । “वरो जामातरि वृतौ देवतादेरभीप्सिते ॥ पिड़े पुंसि त्रिषु श्रेष्ठे कुंकुमे तु नपुंसकम् । वरी प्रोक्ता शतावर्यां वरा च स्यात्फलत्रिके । मनागिष्टे वरं क्लीबं केचिदाहुस्तदव्ययमिति मेदिनी" ॥ १७२ ॥ वंशस्य वेणोरंकुरे करीरः पुनपुंसकयोः । ना पुमान् । चमूजघने सेनापश्चाद्भागे प्रतिसरो ना पुल्लिंगः हस्तसूत्रे मंगलार्थं मंत्रैरभिमंत्रितं सूत्रं यत्करे बद्धयते तत्र । " भवेत्प्रतिसरो मंत्रभेदे माल्ये च कंकणे । व्रणशुद्धौ चमूपृष्ठे पुंसि न स्त्री तु मंडले । आरक्षे करसूत्रे च नियोज्ये त्वन्यलिंगक इति मेदिनी" ॥ १७३ ॥ यमादिषु चतुर्दशसु हरिशब्दो वर्तते । तत्र त्रयोदशसु ना पुमान् । कपिलवणे त्रिलिंगः । अनिलो वायुः । अंशुः किरणः । वाजी हयः शुकः पक्षिभेदः । अहिः. सर्पः। " लोकांतरहरिद्वर्णयोश्च हरिः" ॥ १७४ ॥ कर्परांशे सिकतासु । अपिशब्दात्खंडविकृत्यादौ शर्कराशब्दः । “ शर्करा खंडविकृतावुपलाकर्परांशयोः । शर्करान्वितदेशे ऽपि रुग्भेदे शकले ऽपि चेति मेदिनी ।" याप्यते ऽनेन यापनं तस्मिन् । यात्रा तु यापनोपाये गतौ देवार्चनोत्सव इति विश्वः । भ्वादिषु चतुर्ष For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy