SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३] तृतीयं कांडम्. वेदभेदे गुप्तवादे मंत्रो मित्रो खावपि ।। १६६ ।। मखेष्ठ यूपखंडे ऽपि खरुर्गुह्ये ऽप्यवस्करः ॥ आडंबर स्तूर्यखे गजेंद्राणां च गर्जिते ॥ १६७ ॥ अभिहारो ऽभियोगे च चौर्य सन्नहने ऽपि च ॥ स्वाज्जंगमे परीवारः खङ्गकोशे परिच्छदे ॥ १६८ ॥ विष्ट विटपी दर्भमुष्टिः पीठाद्यमासनम् ॥ द्वारि द्वाःस्थे प्रतीहारः प्रतीहार्यप्यनंतरे ।। १६९ ।। विपुले नकुले विष्णौ वचन पिंगले त्रिषु ॥ सारो बले स्थिरांशे च न्याय्ये क्लीवं वरे त्रिषु ॥ १७० ॥ सिकर्तव्यावधारणे मंत्रः “ मंत्री देवादिसाधने ॥ वेदांशे गुप्तवादे चेति हैम: । " अपिशब्दात्सख्यौ मित्रं क्लीबम् । मित्रं सुहृदि न द्वयोरित्युक्तत्वात् ॥ १६६ ॥ “यूपे तक्ष्यमाणे प्रथमपतितं शकलं यूपखंडम् ।” अपिशब्दाद्दंभोलौ च स्वरुः । स्वरुवज्रध्वनौ बाणे यूपखंडे ऽपि च स्वरुः । गुह्ये उपस्थे । अपिशब्दाद्द्भूथे ऽप्यवस्करः । तूर्यरवो वाद्यध्वनिः । आडंबर ः समारंभे गजगर्जिततूर्थयोरिति कोशांतरम् ॥ १६७॥ अभियोगो ऽभिग्रहणम् । चोरस्य कर्म चौर्यम् । सन्नहनं कवचादिग्रहणम् । एतेध्वभिहारः । जंगमे जंगमविशेषे परिजन इति यावत् । खड्गकोशे असिपिधायके चर्मादौ परिच्छदे उपकरणे परीवारः ॥ १६८ ॥ विटपी वृक्षः । दर्भमुष्टिपरिमाणं तु । पंचाशता भवेद्ब्रह्मा तदर्धेन तु विष्टर इत्यादि । पीठमाद्यं यस्य तदासनं च विष्टरः । आद्यशब्दात् कृष्णाजिनादि । अत्र पीठं काष्ठादिमयमासनम् । द्वाःस्थे द्वारपाले प्रतीहारः । अनंतरोक्त प्रतीहारे प्रतीहारीत्यपि शब्दः । स तु पुंव्यक्तावपि स्त्रियाम् । उपसर्गस्य घनीति दीर्घः । गौरादित्वात् ङीष् । अपिशब्दात् द्वाः स्थितायां 1 च योषितीति मेदिनी । अयमिन्नंत इति न भ्रमितव्यम् । तेषु तस्य पाठायो - 1 गात् ॥ १६९ ॥ विपुल इति नकुलविशेषणम् । तेन विशालनकुले विष्णो च बभ्रुः पुंसि | पिंगले त्रिषु । 'बभ्रु: पिंगाऽग्निशूलिषु । मुनौ विशाले नकुले विष्णाविति हैमः । ” स्थिरांशी वृक्षादेः कठोरभागः । तत्र यथा । शिंशपासारः । न्याय्ये न्यायादनपेते । वरे श्रेष्ठे । " सारो बले स्थिरांशे च मज्ज्नि पुंसि जले धने । न्याय्ये क्लीवं त्रिषु वर इति मेदिनी " ॥ १७० ॥ द्यूतकारे पणे च । " 66 66 Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal ३२५
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy