SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३२४ सटीकामरकोशस्य [नानार्थवर्गः किंशारू सँस्यशूकेषु मरू धन्वधराधरौ ।। १६२ ॥ अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ ।। ध्वांतारिदानवा वृत्रा बलिहस्तांशवः कराः॥१६३॥ प्रदरा भंगनारीरुक्बाणा अस्राः कचा अपि ॥ अजातशृंगो गौः काले ऽप्यश्मश्रुर्ना च तूबरौ ॥१६॥ वर्णे ऽपि राः परिकरः पर्यकपरिवारयोः॥ मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु॥१६५॥ कबुरे ऽथ प्रतिज्ञाजिसंविदापत्सु संगरः॥ करोति । इंगितं चेष्टितम् । किंशारुर्ना सस्यशूके विशिखे कंकपक्षिणीति मेदिनी। सस्यस्थाने धान्य इति कुत्रचित् पाठः॥धन्वा निर्जलदेशः।धराधरः पर्वतः सोऽपि मरुस्थलीसंबंधान्मरुः॥१६२॥दुमशैलार्केषु अद्रिशब्दो वर्तते स्त्रियाः स्तनः कुचः । अव्दो मेघः। उभौ पयोधरौ “पयोधरः कोशकारे नालिकेरे स्तने ऽपि च ॥कशेरुमेधयोः पुंसीति मेदिनी ।” अरिः शत्रुः । दानवो दनुजभेदः । “ वृत्रो मेधे रिपो ध्वांते दानवे वासवे गिराविति हैमः ।" राज्ञा ग्राह्यभागो बलिः । अंशू रश्मिः ॥ १६३ ॥ नारीरुक् स्त्रीणां रोगभेदः । प्रदरो रोगभेदे स्याद्विदारशरभंगयोरिति । कचाः केशाः । अपिशब्दात्कोणे ऽप्यस्रः । न जाते शृंगे यस्य स एवंभूतो गौः। काले श्मश्रूत्थानसमये ऽपि यो ना पुरुषो ऽश्मश्रुः श्मश्रुरहितस्तावुभावपि तूबरौ । “ काल इत्युभाभ्यां संबध्यते । तूबरो ऽश्मश्रुपुरुषे प्रौढाशृंगारके ऽपि च । पुरुष व्यंजनत्यक्ते स्यात्कषायरसे ऽपि चेति मेदिनी" ॥१६४॥ अपिशब्दाद्वित्तमात्रे रा इत्येकाक्षरम् । “ भवेत्परिकरो व्राते पर्यकपरिवारयोः । प्रगाढगात्रिकाबंधे विवेकारंभयोरपीति विश्वः । यत्नारंभौ परिकराविति त्रिकांडशेषः ।" तारो मुक्तादिसंशुद्धौ तरणे . शुद्धमौक्तिके । तारं च रजते ऽत्युच्चस्वरेऽप्यन्यवदीरितमिति विश्वः । स तु शारशब्दः । कर्बुरः शबलवर्णः । शारः स्याच्छबले वाच्यलिंगः पुंसि समीरणे ॥ १६५ ॥ आजियुद्धम् । संवित् क्रियाकारः । प्रतिज्ञायां यथा । सत्यसंगरः । “ संगरो युधि चापदि । क्रियाकारे विषे चांगीकारे क्लीबं शमीफल इति मेदिनी।" गुप्तवादे रह For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy