SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २) तृतीयं कांडम्. ३२३ गौहीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ॥ आत्मवाननपेतोऽर्थादौँ पुण्यं तु चापि ॥ १५९ ॥ रूप्यं प्रशस्तरूपे ऽपि वदान्यो वल्गुवागपि ॥ न्याय्येऽपि मध्यं सौम्यं तु सुंदरे सोमदैवते॥इति यांताः॥१६॥ निवहावसरौ वारौ संस्तरौ प्रस्तराऽध्वरौ॥ गुरू गीष्पतिपित्राद्यौ द्वापरौ युगसंशयौ ॥ १६१ ॥ प्रकारौ भेदसादृश्ये आकाराविगिताकृती ॥ पि वक्तव्यशब्दः । वक्तव्यं कुत्सिते हीने वचनार्हे च वाच्यवदिति मेदिनी । अहीनस्थाने अधीन इति कुत्रचित्पाठो दृश्यते । सज्जः सोपकरणः । निरामयो नीरोगः। उभौ कल्यौ । कलासु साधुः कल्यः । उषस्यपि कल्यम् । “ कल्यं प्रभाते क्लीवं स्यात्कल्यो वाक्श्रुतिवर्जिते । सज्जनीरोगदक्षेषु कल्याणवचने ऽपि च । उपायवचनेऽपि स्यादिति मेदिनी"। आत्मवान् धीमान् । अर्थाद्यो ऽनपेतः अपगतो न भवति स चार्थ्यः । “ अर्थ्यः संप्रार्थे न्याय्यविज्ञयोरिति हैमः ।" चारु सुंदरं भपिशब्दात्सुकृतधर्मयोः “पावने च" पुण्यम् । “पुण्यं त्रिषु मनोज्ञे स्यात्क्लीषं सुकृ. तधर्मयोरिति विश्वः"॥१५९॥ प्रशस्तं रूपं यस्य तस्मिन् । रूपादाहतप्रशंसयोर्यप् इति सूत्रेण साधुः । अपिशब्दात् । रूप्यं स्यादाहतस्वर्णरजते रजते ऽपि च ॥ रम्ये प्रशस्तरूपे तु वाच्यवदिति विश्वः । अपिशब्दादातर्यपि वदान्यः । न्याय्ये उचितेऽपिशब्दादवलग्ने च । “ न्याय्यावलग्नयोर्मध्यमंतरे चाधमे त्रिष्विति रभसः ।" सोमदैवते यथा । सोमश्चंद्रो दैवतमस्य सौम्यं हविः “ सौम्यो ज्ञे ना त्रिष्वनुने मनोज्ञे सोमदैवत इति मेदिनी" ॥ १६० ॥ सर्वज्ञभिषजौ वैद्यौ कुल्या कुलवधू सरित् । फलकल्याणयोर्भव्यं योग्यं सांप्रतिके त्रिषु ॥१॥ क्रिया चारातिक्रमे ऽपि जलाधारे ऽपि चाशयः॥ दैत्याचार्ये ऽपि धिष्ण्यो ना कषायः सुरभावपि ॥२॥ चंद्रोदये विताने ऽपि स्यादाम्नायो ऽन्वये श्रुतौ ॥ इदं साधू श्लोकद्वयं कुत्रचित् पुस्तके मूलेऽपि दृश्यते ॥ इति यांताः ॥ अथ रांतानाह । निवहो वृंदः। अवसरः प्रस्तावः उभौ वारौ । वारः सूर्यादिदिवसे वारो ऽवसरवृंदयोरिति । प्रस्तरो दर्भमुष्टिदर्भशय्या वा । अध्वरः ऋतुरुभौ संस्तरौ । आद्यशब्दावेदशास्त्राध्यापकश्च गुरुः ॥ १६१ ॥ भेदो विशेषो यथा । पलांडुभेदा गुंजनादयः । सादृश्यं यथा । मर्कटप्रकारं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy