SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. वसंते पुष्पसमयः सुरभिग्रष्म उष्मकः ॥ १८ ॥ निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः ॥ स्त्रियां प्रावृट् स्त्रियां भूनि वर्षा अथ शरत्स्त्रियाम् ॥ १९ ॥ पडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् ॥ संवत्सरो वत्सरोऽब्दो हायनो स्त्री शरत्समाः ॥ २० ॥ मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः ॥ दैवे युगसहस्त्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् ॥ २१ ॥ मन्वंतरं तु दिव्यानां युगानामेकसप्ततिः ॥ For Private And Personal २७ ग्रीष्मः उध्मकः ( ऊष्मकः ) || १८ || निदाघः । नितरां दांतेऽत्र दह भस्मीकरणे हलश्चेति घञ् न्यंक्वादित्वात् कुत्वम् । उष्णोपगमः उष्णः ऊष्मागमः “ उष्मागमः” . तपः इति सप्तकं ग्रीष्मस्य । तपो ऽकारांतः पुंसि । प्रावृट् वर्षणं वृट् प्रकृष्टा वृट् यत्र वृषुसेचने नहिवृतीति दीर्घः । वर्षाः द्वे वर्षतः । तत्र प्रावृटूशब्दः षांतः स्त्रियाम् । वर्षाशब्दस्तु स्त्रीलिंगो भूम्नि नित्यं बहुवचनांत इत्यर्थः । शरदित्येक ऋतु: स स्त्रीलिंगो दकारांतः ॥ १९ ॥ अमी हेमंतादयः षडपि ऋतवः ऋतुसंज्ञकाः । ऋतुशब्दः पुल्लिंगः । ते च हेमंतादयः मार्गशीर्षादिमासानां षड्डिर्युग्मैः क्रमाद्भवंति । उक्तं च। आदाय मार्गशीर्षाच्च द्वौ द्वौ मासावृतुर्मत इति । संवत्सरः वत्सरः अब्दः हायनः शरत् समाः षटुं वर्षस्य । तत्र हायनांता अस्त्रियाम् । समाः स्त्रियां बहुत्वे च । समांसमां विजायते इत्येकत्वे ऽपि दृश्यते ॥ २० ॥ मानुषेण मासेन एकः पैत्रो ऽहोरात्रः । तत्र कृष्णाष्टम्या उत्तरार्धे दिनारंभः शुक्लाष्टम्या उत्तरार्धे राज्यारंभः । तथा मानुषेण वर्षेण दैवतः देवानामहोरात्रः । तत्रोत्तरायणं दिनम् । दक्षिणायनं रात्रिः । मानुषाणां यत्कृतादि युगचतुष्टयं तद्दैवं युगं ज्ञेयम् । एवं दैवे द्वे युगसहस्रे ब्राह्मो ऽहोरात्रः । अयमर्थः उक्तानां देवताहोरात्राणां षष्ट्यधिकशतत्रयेण दिव्यं वर्षं । दिव्यैर्द्वादशभिर्वर्षसहस्रै. मनुषचतुर्युगं तच्च देवानामेकं युगं तत्सहस्रं ब्रह्मणो दिनं तत्तु भूतानां स्थितिकालस्तावत्येव रात्रिर्भूतानां प्रलयकाल इति । अत उक्तं तौ कल्पाविति । ये द्वे दैवे युगसहस्रे तौ नृणां कल्पौ स्थितिप्रलयकालावित्यर्थः ॥ २१ ॥ दिव्यानां युगानां या एकसप्ततिरेकाधिका सप्ततिःतन्मन्वंतरम् । मनूनां स्वायंभुवचाक्षुषादीनामंतरमवकाशो ऽवधिर्वा । -
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy