SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य समरात्रिदिवे काले विषुवद्विषुवं च तत् ॥ “पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा ॥ नाम्ना स पौष माघाद्याश्चैवमेकादशापरे ॥ १ ॥ मार्गशीर्षे सहा मार्ग आग्रहायणिकच सः ॥ १४ ॥ पौषसहस्rt at तपा माघे ऽथ फाल्गुने ॥ स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः ॥ १५॥ वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम् || आषाढे श्रावणे तु स्यान्नभाः श्रावणिकच सः ॥ १६ ॥ स्युर्नभस्य प्रोष्ठपदभाद्रभाद्रपदाः समाः ॥ स्वादाश्विन इपोप्याश्वयुजो ऽपि स्यात्तु कार्त्तिके ||१७| बालो कार्तिकको हेमंतः शिशिरोऽस्त्रियाम् ।। For Private And Personal [कालवर्ग: इति णत्वम् । दक्षिणा गतिस्तु दक्षिणायनम् । एवं द्वे अयने एको वत्सरः || १३|| विषुवत् विषुवं "विषुपं विषुणः विषुवः विषुवान्समरात्रिवासर इति पुंस्कांडे बोपालितः” द्वयं समं रात्रिंदिवं यस्मिंस्तस्मिन्काले तुलासंक्रांती मेषसंक्रांतौ च दिनरात्री समे भवतः तस्य कालस्येत्यर्थः । रात्रिंदिवशब्द अचतुरविचतुरेत्यादिना साधुः । “पुष्यनक्षत्रयुक्ता पौर्णमासी पौषी ज्ञेया सा पौषी यस्मिन्मासे वर्तते स नाम्ना पौषः । मघायुक्ता पौर्णमासी यत्र स माघः स आयो येषां ते । अपरे पौषादन्ये एकादश मासा एवमुक्तरीत्या ज्ञेया: " एकैकं । मार्गशीर्षः सहाः मार्गः आग्रहायणिकः चत्वारि मार्गशीर्षस्य || १४ || पौषः तेषः सहस्यः त्रीणि पौषस्य । तपाः माघः द्वे माघस्य । फाल्गुनः तपस्यः फाल्गुनिकः त्रयम् । चैत्रः चैत्रिकः मधुः त्रयम् || १५ || वैशाखः माधवः राधः त्रीणि । ज्येष्ठः शुक्रः द्वे । शुचिः आषाढः द्वे । श्रावण: नभाः । सांतः । श्रावणिकः त्रीणि ॥ १६ ॥ नभस्यः प्रौष्ठपदः भाद्रः भाद्रपदः चत्वारि । आश्विनः इषः आश्वयुजः त्रीणि । कार्तिकः ॥ १७ ॥ बाहुल: ऊर्जः कार्तिकिकः चत्वारि । ऋतुभेदानाह । हेमंत इत्येक ऋतु: । शिशिर इत्यपरः । स च पुन्नपुंसकलिंगः एकैकम् । वसंतः पुष्प समयः सुरभिः त्रीणि वसंतस्य ।
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy