SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . रहस्साप तृतीयं कांडम्. ३२१ पश्चादवस्थायिबलं समवायश्च सन्नयौ ॥ १५० ॥ संघाते सन्निवेशे च संस्त्यायः प्रणयास्त्वमी ॥ विसंभयात्राप्रमाणो विरोधे ऽपि समुच्छ्रयः॥ १५१ ॥ विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥ निर्यासे ऽपि कषायो ऽस्त्री सभायां च प्रतिश्रयः॥१५२।। प्रायो भूम्यंतगमने मन्युर्दैन्ये क्रतौ कुधि ॥ रहस्सोपस्थयोBह्यं सत्यं शपथतथ्ययोः॥ १५३ ॥ वीर्य बले प्रभावे च द्रव्यं भव्ये गुणाश्रये ॥ धिष्ण्यं स्थाने गृहे भेऽनौ भाग्यं कर्म शुभाशुभम्।।१५४॥ कशेरुहेनोोगेयं विशल्या दंतिकाऽपि च ॥ यत्सैन्यं तत्पश्चादवस्थायिबलं । समवायः समूहः । उभौ सन्नयौ ॥ १५० ॥ सन्निवेशे स्थानविशेषे “विस्तृतौ च संस्त्यायः ।" अमी विसंभादयस्त्रयः प्रणयाः । विसंभो विश्वासः । “ प्रसरश्च प्रणयः ।" वैरोन्नत्योः समुच्छ्रय इति रभसः ॥ १५१॥ यस्य मत्स्यादेर्यो जलादिर्तातो नित्यसेवितस्तस्य तत्र विषयः । शब्दादिकाः शब्दस्पर्शरूपैरसगंधाँच विषयाः । देशगोचरौ विषयौ । निर्यासः काथरसः । अपिशब्दाद्विलेपनादौ । कषायो रसभेदे स्थादंगरागे विलेपन इति विश्वः । आश्रये “अभ्युपगमे" च प्रतिश्रयः ॥ १२॥ भूनि बाहुल्ये । यथा प्रायेण ब्राह्मणा भोज्याः । बाहुल्येनेत्यर्थः । अंतो नाशो गम्यते ऽनेन । तत्रानशने यथा । प्रायोपवेशः कृतः । प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपीति विश्वः । कतौ यज्ञे कोपे च मन्युः । “ शोके च ।" रहस्यं गोप्यम् । तथ्यमृतम् । “ कृतयुगे च सत्यम्” ॥ १५३ ॥ बलं सामर्थ्यम् । प्रभावस्तेजोविशेषः । तत्र वीर्यम् । “ वीर्य तेजःप्रभावयोः । शुक्रे शक्तौ चेति हैमः ।" भव्ये सत्वे गुणाश्रये पृथिव्यादौ द्रविणे च द्रव्यम् । “ द्रव्यं भव्ये धने क्ष्मादौ जतुद्रुमविकारयोः । विलेपे भेषजे रीत्यामिति हैमः।" भे नक्षत्रे । अग्नौ वह्रौ । शुभाशुभमिति शुभमशुभं वा जन्मांतरीयं यत्कर्म तद्भाग्यमित्युच्यते । ऐश्वर्येऽपि ॥ १५४ ॥ कशेरु स्वनाम्नैव ख्यातम् । दंतिका निकुंभः । अपिशव्दादग्निशिखा गुडूच्यपि विशल्या । "त्रिपुटायां च ।" श्रीलक्ष्मीः। "वृषाकपायी जीवंत्यां For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy