SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३ सटीकामरकोशस्य [नानार्थवर्ग: पर्जन्यौ रसदब्देंद्रौ स्यादयः स्वामिवैश्ययोः॥ तिष्यः पुष्ये कलियुगे पर्यायो ऽवसरे क्रमे ॥ १४६॥ प्रत्ययो ऽधीनशपथज्ञानविश्वासहेतुषु ॥ रंधे शब्दे ऽथानुशयो दीर्घदेषानुतापयोः॥१४७॥ स्थूलोचयस्त्वसाकल्ये नागानां मध्यमे गते ॥ समयाः शपथाचारकालसिद्धांतसंविदः ॥ १४८॥ व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः॥ अत्ययो ऽतिकमे कृछ्रे दोषे दंडे ऽप्यथापदि ॥ १४९॥ युद्धाययोः संपरायः पूज्यस्तु श्वशुरे ऽपि च ॥ उभौ पर्जन्यौ । “मेघशब्दे ऽपि पर्जन्यः " प्रभुवैश्ययोरर्यः । पुष्यः तुर्ययुगे च तिष्यः । अवसरे प्रस्तावे क्रमे च पर्यायः ।“पर्यायस्तु प्रकारे स्यान्निर्माणेऽवसरे क्रम इति विश्वः "॥१४६॥ प्रत्ययनं प्रत्ययः । प्रतीयते अनेन वा प्रत्येतीति वा प्रत्ययः । इण्गतौ एरच अथवा पचादित्वात् साधुः । अधीनादिषु सप्तसु प्रत्ययशब्दस्तत्रा. ऽधीने यथा । राजप्रत्ययाः प्रजाः । शपथः शपनम् । ज्ञाने यथा । प्रत्यक्षप्रत्ययः। विश्वासे यथा । न शत्रोः प्रत्ययं गच्छेत् । हेतौ यथा । गार्हस्थ्यं भार्याप्रत्ययम् । रंधे छिद्रे । शब्दे यथा । चिकीर्षतीत्यत्र सन् प्रत्ययः । “ प्रत्ययः शपथे रंधे विश्वासाचारहेतुषु ॥ प्रथितत्वे च सन्नादावधीनज्ञानयोरपीति विश्वः ।" चिरद्वेषे पश्चात्तापे चानुशयः । “ अनुबंधे च" ॥ १४७ ॥ असाकल्ये ऽकात्स्न्ये । ना. गानां हस्तिनां यन्न शीघ्रं नापि मंदं गमनं तत्रेत्यर्थः । स्थूलोच्चयो गंडोपले ऽपि च । गजानां मध्यमगते ऽप्यसाकल्यकरंडयोरिति मेदिनी । शपथादयः समयाः । तत्र शपथे यथा । कृतसमयो ऽपि चोरो दंड्यः । संवित् संभाषा । “समयः शपथे भाषासंपदोः कालसंविदोः। सिद्धांताचारसंकेतनियमावसरेषु च । क्रियाकारे च निर्देशे इति हैमः"॥१४८ ॥ व्यसनानि यतादीनि । अशुभमिति दैवविशेषणम् । विपद्विपत्तिरेतश्रयं अनयसंज्ञम् । अशुभदैवे यथा । निःस्वो ऽभूदनयेन सः । अतिक्र. मे उल्लंघने । “ अपिशब्दात् नाशे चात्ययः ।" आपदादित्रये संपरायः ॥१४९॥ आयतिः उत्तरकालः । अपिशब्दात्पूजाहेऽपि पूज्यः । सेनायाः पृष्ठभागे तिष्ठति For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy