SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. तलिनं विरले स्तोके वायलिंगं तथोत्तरे ॥ १२६ ॥ समानाः सत्समैके स्युः पिशुनौ खलसूचकौ ॥ हीनन्यूनावूनगौँ वेगिरौ तरखिनौ ॥ १२७॥ अभिपन्नो ऽपराधोऽभिग्रस्तव्यापन्नतावपि॥ इति नांताः।। कलापो भूषणे बहे तूणीरे संहतावपि ॥ १२८ ॥ परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ ।। गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी ॥ १२९ ॥ बाष्पमूष्माश्रु कशिपु वन्नमाच्छादनं द्वयम् ॥ यथा तलिनं वाच्यलिंगं तथा उत्तरेऽपि नांतसमाप्तिपर्यंत वाच्यलिंगाः ॥ १२६ ॥ सन् पंडितः समः सदृशः एकश्चैते समानाः स्युः । एकस्मिन्नर्थे यथा । समानोदरौ बंधू एकोदरावित्यर्थः । खलो दुर्जनः । सूचकः कर्णेजपः उभौ पिशुनौ । " पिशुनं कुंकुमे ऽपि च । कपिवक्र च काके ना सूचकक्रूरयोनिध्विति मेदिनी।” ऊनो ऽल्पः गर्यो निंद्यः द्वावेतौ हीनन्यूनशब्दवाच्यौ । वेगी वेगयुक्तः । शुरो बली ॥ १२७ ॥ अपराद्धो ऽपराधवान् । अभिग्रस्तः शत्रुणाक्रांतः । व्यापद्गतः प्राप्तविपत्कः । एते अभिपन्नवाच्याः । प्रक्षिप्तश्लोकद्वयं लिख्यते । लेख्ये भूम्यादिदानार्थ यातना ऽऽज्ञा च शासनम् । निदानमवसाने च सार्थे वा षिके धनी । कक्षापटेऽपि कौपीनं न ना खेदेऽपि वेदना । द्युम्नं बले ऽथ भार्यापि जातिदोषेऽपि लांछनम् ॥ इति नांताः ॥ ॥ भूषणे “अलंकारमात्रे" बर्हे मयूरपिच्छे । तूणीरे इषुधौ । संहतो समुदाये । “कांच्यां च कलापशब्दः" ॥ १२८॥ परिच्छदः पटमंडपायुपकरणम् । पर्युप्तिः सर्वतो वपनम् । डुष बीजसंताने धातुः । सलिलस्थितौ जलाधारे परीवापः । गां दोग्धीति गोधुग्गोपालः गोष्ठाध्यक्षश्च गोपौ। "गोपो प्रामौघगोष्ठाधिकृतयोबल्लवे नृप इति विश्वः।" वृषाकपिसंज्ञौ हरो विष्णुश्च । " अग्निश्च" ॥ १२९ ॥ ऊष्मोष्णम् । अश्रु नेत्रोदकं च बाष्पसंज्ञम् । अथवो. प्माश्रु इत्येकं बाष्पसंज्ञमिति वदंति । अन्नं भोजनम् । आच्छादनं वस्रम् । एतत् द्वयं कशिपुसंज्ञम् । वक्ष्यमाणमस्त्रियामिति कशिपौ तल्पे चान्वीयते । अट्टो ऽट्टालिका । दाराः स्त्री । अत्र यथा गुरुतल्पः । स्तंबे तृणादिगुच्छे । अपि. For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy