SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१४ सटीकामरकोशस्य, [नानार्थवर्गः अकार्यगुह्ये कौपीनं मैथुनं संगतौ रते ॥ १२१ ॥ प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिन्हयोः॥ प्रसूनं पुष्पफलयोनिधनं कुलनाशयोः॥ १२२॥ क्रंदने रोदनाव्हाने वर्म देहप्रमाणयोः॥ गृहदेहविद्प्रभावा धामान्यथ चतुष्पथे ॥ १२३ ॥ सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः॥ आच्छादने संपिधानमपवारणमित्युभे ॥ १२४॥ आराधनं साधने स्यादवाप्तौ तोषणे ऽपि च ॥ अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि ॥ १२५॥ रत्नं खजातिश्रेष्ठे ऽपि वने सलिलकानने ॥ अध्वनि मार्गे वर्त्म ॥ अकार्ये अकरणार्हे गुह्ये उपस्थे कौपीनम् । कूपपतनमर्हति कौपीनं पापं तत्साधनत्वात्तद्वत् गोप्यत्वाद्वा पुरुषलिंगमपि तदाच्छादनत्वाद्वस्त्रमपि। संगतौ भार्यादिसंबंधे । रते सुरते मैथुनं स्यात् ॥ १२१ ॥ धीः बुद्धिः । महामात्रे । “प्रकृतौ प्रज्ञायां" च प्रधानम् । बुद्धिचिन्हयोः प्रज्ञानम् । “ प्रसूनो वाच्यवज्जाते क्लीवं तु फलपुष्पयोरिति मेदिनी ।” कुले वशे ॥ १२२ ॥ आव्हानमारावः । उभे क्रंदनसंज्ञे । प्रमाण मियत्ता । उभयोर्वम । “वर्म देहप्रमाणातिसुंदराकृतिषु स्मृतमिति मेदिनी।" गृहादीनि चत्वारि धामशब्दवाच्यानि । "धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोरिति हैमः ।” चतुष्पथे शृंगाटके ॥ १२३ ॥ सन्निवेशे अवयवविभागे संस्थानम् । “ संस्थानं त्वाकृतौ मृतौ । चतुष्पथे सन्निवेश इति हैमः ।" " चिह्न प्रधाने लक्ष्म ।” संपिधानं तिरोधानम् । अपवारणं वस्त्रादिना परिवृतिः । उभे आच्छादनसंज्ञे । वस्त्रे ऽप्याच्छादनम् ॥ १२४ ॥ साधने निष्पादने । अवाप्तौ लाभे । तोषणे तुष्टौ आराधनं स्यात् । चक्रं रथांगम् । पुरं नगरम् । अध्यासनमाक्रमणं अधिष्ठानं स्यात् ॥ १२५ ॥ स्वजातिश्रेष्ठे रत्नम् । यथा स्त्रीरत्नम् । मणावपि । सलिलं जलम् । काननमरण्यम् । उभे वने । “वनं प्रस्रवणे गेहे प्रवाहें ऽभसि कानन इति हैमः ।" विरले सांतरे । स्तोके ऽल्पे । तलिनम् । “स्वच्छे च ।” तल प्रतिष्ठायामिति धातोरिनन् । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy