SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१६ . सटीकामरकोशस्य . [नानार्थवर्ग: तल्पं शय्यादारेषु स्तंबे ऽपि विटपो ऽस्त्रियाम् ॥ १३०॥ प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः॥ भेद्यलिंगा अमी कूर्मी वीणाभेदश्च कच्छपी ॥ १३१ ॥ “कुतपो मृगरोमोत्थपटे चाहोऽष्टमें ऽशके ॥” इति पांताः॥ रवणे पुंसि रेफः स्यात्कुत्सिते वाच्यलिंगकः ॥ इति फांताः॥ अंतराभवसत्वे ऽश्वे गंधर्वो दिव्यगायने ॥ १३२॥ कंबुर्ना वलये शंखे दिजिव्हौ सर्पसूचकौ ॥ पूर्वोऽन्यलिंगःप्रागाह बहुत्वेऽपि पूर्वजान्॥१३३॥इति बांताः शब्दाद्विस्तारशाखयोश्च । “ पल्लवे विटाधिपे ऽपि" विटपः ॥ १३० ॥ अमी प्राप्तरूपादयस्त्रयः पाता भेद्यलिंगाः बुधे पंडिते मनोज्ञे मनोहरे च वर्तते । “ प्राप्त रूपं येन प्राप्तरूपः । स्वमेव रूपं यस्य स्वरूपः । अभिलक्ष्यं रूपमस्याभिरूपः ।" कर्मी कमठी । वीणाभेदः सारस्वती वीणा । सरस्वत्यास्तु कच्छपीत्युक्तत्वात् । द्वे कच्छपी संज्ञे। कच्छपी वल्लकीभेदे डुलौ क्षुद्रगदांतर इति विश्वः ॥ १३१ ॥ " कुतपो मृगरोमोत्थपटे चाह्रो ऽष्टमें ऽशके इत्यन्यत्र क्वचित् ।" इति पांताः । रवर्णे राक्षरे रेफः पुंसि । यथा रेफे परे लोपः । कुत्सिते रेफो वाच्यलिंगकः । शिफा शिखायां सरिति मांसिकायां च मातरि । शर्फ मूले तरूणां स्याद्वादीनां खुरे ऽपि च ॥ गुंफः स्याटुंफने बाहोरलंकारे च कीर्तितः । इति सार्ध पचं मूलादितरत् ॥ इति फांताः ॥ अथ बवयोः सावर्ण्यत्वात् बांतान्वांतांश्चाह । यो मरणजन्मनोरंतराले स्थितः प्राणी सों ऽतराभवसत्वः तस्मिन् । अश्वे घोटके । दिव्यगायने विश्वावसुप्रभृतौ । गायनमात्रे च गंधर्वः । “गंधर्वस्तु नभश्चरे । पुस्कोकिले गायने च मृगभेदे तुरंगमे । अंतराभवदेहे चेति हैमः” ॥ १३२ ॥ ना पुंसीत्यर्थः । गजशंबूकयोरपि कंबुः । “ ग्रीवायां च ।" सूचकः पिशुनः । पूर्व शब्दः प्राग्वाची वाच्यलिंगकः । यथा । पूर्वा नदी । पूर्वो प्रामः । पूर्व वनम् । यदा तु पूर्वजान् पितामहादीनाह तदा पुंसि बहुवे वर्तते । यल्लक्ष्यम् । पूर्वेषांमपि पूर्वजाः इति । पूर्वे स्युः पूर्वजाः पूर्वे ज्ञातय इति धरणिः । प्राक् पूर्वमग्रत इति च ॥ १३३ ॥ इति बांताः ॥ घटः कलशः इभंस्स गजस्य मूर्द्धाशः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy