SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्' ३१३ स्यादुद्यानं निःसरणे वनभेदे प्रयोजने ॥ ११६॥ अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम् ॥ उत्थानं पौरुषे तंत्रे सन्निविष्टोद्मे ऽपि च ॥ ११७॥ व्युत्थानं प्रतिरोधे च विरोधाचरणे ऽपि च ॥ मारणे मृतसंस्कारे गतौ द्रव्ये ऽर्थदापने ॥ ११८॥ निर्वर्तनोपकरणानुव्रज्यासु च साधनम् ॥ निर्यातनं वैरशुद्धौ दाने न्यासार्पणे ऽपि च ॥ ११९ ॥ व्यसनं विपदि भ्रंशे दोषे कामजकोपजे ॥ पक्ष्माक्षिलोम्नि किंजल्के तत्वायंशेऽप्यणीयसि ॥१२०॥ तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदे ऽध्वनि ॥ च उद्यानं नाम ॥ ११६ ॥ “ स्थानं नित्यावकाशयोः । सादृश्ये सन्निवेशे चेति हैमः।" क्रीडायां व्यवहारे जिगीषादौ देवनम् । अक्षेषु देवनः प्रोक्त इति विश्वः । पौरुषे उद्योगे । तंत्रं कुटुंबकृत्ये स्थात्सिद्धांते चौषधोत्तमे । सन्निविष्टस्योद्गमे ऊर्वीभवने । “ उत्थानमुद्यमे तंत्रे पौरुषे पुस्तके रणे । प्रांगणोद्गमहर्षेषु मलरोगे ऽपि न द्वयोरिति मेदिनी" ॥ ११७ ॥ प्रतिरोधे तिरस्कारे । “ स्वातंत्र्यकृत्ये ऽपि व्युत्थानम् ।" मारणाद्यष्टके सैन्ये मेढ़े च साधनमिति नाम तत्र मारणे । यथा पारदसाधनम् । मृतसंस्कारे ऽग्निदाहे । गतौ गमने । द्रव्ये धने । अर्थस्य धनादेर्दापने ॥ ११८ ॥ निर्वर्तनं अर्थनिष्पादनम् । उपकरणं परिकरः । उपाय इति केचित् । अनुव्रज्या अनुगमनम् । दाने त्यागे । 'न्यासार्पणे निक्षिप्तद्रव्यस्य अर्पणे निर्यातनम् ॥ ११९ ॥ भ्रंशे अपाये पतने वा। दोष इत्यस्य प्रत्येकं संबंधः । कामजदोषस्तु मृगयाछूतस्त्रीमद्यपानेषु प्रसक्तिः। कोपजदोषस्तु वाक्पारुष्यादिः । “ व्यसनं त्वशुभे सक्तौ पानस्त्रीमृगयादिषु । दैवानिष्टफले पापे विपत्तौ निष्फलोद्यम इति मेदिनी ।" अक्षिलोम्नि चक्षुर्लोनि किंजल्के केसरे । अणीयसि तंत्वाचंशे अल्पतरे सूत्राद्यशे। पक्ष्मेति नांतम् ॥१२०॥ तिथिभेदे ऽष्टमीदर्शादौ क्षणे उत्सवे पर्व । “पर्व प्रस्तावोत्सवयोथौ विषुवदादिषु । दर्शप्रतिपत्संधौ च तिथिग्रंथविशेषयोरिति हैमः ।" नेत्रपिधायकचर्मपुटे For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy