SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१२ सटीकामरकोशस्य [नानार्थवर्ग: इनः सूर्ये प्रभौ राजा मृगांके क्षत्रिये नृपे॥ वाणिन्यौ नर्तकीदूत्यौ सवंत्यामपि वाहिनी ॥ १११॥ हादिन्यौ वज्रतडितौ वंदायामपि कामिनी ॥ त्वग्देहयोरपि तनुः सूना ऽधोजिहिकापि च ॥ ११२॥ ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके ॥ मंदे ऽथ केतनं कृत्ये केतावुपनिमंत्रणे ॥ ११३॥ वेदस्तत्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः॥ उत्साहने च हिंसायां सूचने चापि गंधनम् ॥ ११४ ॥ आतंचनं प्रतीवापजवनाप्ययनार्थकम् ॥ व्यंजनं लांछनं श्मश्रुनिष्ठानावयवेष्वपि ॥ ११५॥ स्यात्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम् ॥ शब्दः । “राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ । यक्षे शके च पुंसि स्यादिति मेदिनी ।” मृगांकश्चंद्रः । “नर्तकीदूत्यौ वाणिन्यौ । वाणिनी नर्तकीमत्ताविदग्धावनितासु चेति मेदिनी ।" सवंत्यां नद्यां सेनायामपि ॥ १११॥ वजं कुलिशम् । तडिद्विद्युत् । वंदावृक्षे विजातीयप्ररोहे । योषिन्मात्रे विलासिन्यामपि कामिनीशब्दो वर्तते । तनुः काये त्वचि स्त्री स्यात्रिष्वल्पे विरले कृश इति मेदिनी । अधो जिलिका गलकंठिका सा सूना । अपिशब्दात्पुत्र्यां वधस्थाने ऽपि ॥ ११२ ॥ ऋतुर्यज्ञः । तुच्छके शून्ये मंदे च वितानं त्रिषु । मंदे यथा । वितानभूत हृदयः केतौ ध्वजे उपनिमंत्रणे निवासे ऽपि केतनम् ॥ ११३ ॥ तत्वं चैतन्यम् । तपो ब्रह्मा यथा ब्रह्मचारीति । वेदादित्रये ब्रह्मशब्दः क्लीबे । विप्रवेधसोः पुंसि । "ऋत्विग्योगभिदोश्च । सूचने आशयप्रकाशने ऽपि" ॥ ११४ ॥ प्रतीवापः क्षीरादौ तक्रादेनिक्षेपः । जवनं वेगः । आप्यायनं प्रीणनम् । एतदर्थकमातंचनम् । लांछनं चिन्हम् । निष्ठानं तेमनम् । अवयवो ऽवयवभेदः । स्त्रीपुंसयोरिति यावत् । एतेषु व्यंजनं नाम ॥ ११५॥ लोकवादे लोकापवादे पश्वादीनां युद्धे च “ कुलीनत्वे च" कौलीनम् । निःसरणे प्रहादेनिर्गमे वनभेदे उपवने प्रयोजने For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy