SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ ॥ १०६ ॥ द्वौ सारथिहयारोहौ वाजिनोऽश्वेषु पक्षिणः॥ कुले ऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः॥ १०७॥ वर्षार्चि/हिभेदाश्च चंद्राग्न्या विरोचनाः॥ क्लेशे ऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः ॥१०॥ आत्मा यत्रो तिर्बुद्धिः खभावो ब्रह्म वर्म च ॥ शको घातुकमत्तेभो वर्षकाब्दो घनाघनः ॥ १०९॥ घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरंतरे॥ अभिमानो ऽर्थादिदर्प ज्ञाने प्रणयहिंसयोः॥ ११०॥ नस्तु संस्कारलिप्सोपग्रहणेषु चेति मेदिनी" ॥ १०६ ॥ सारथिरश्वारोहश्च सादिनौ । “ सादी तुरंगमारोहे निषादिरथिनोरपीति हैमः ।" अश्वो हयः । इषुः शरः पक्षी चैते वाजिनः । कुले कुलमुख्ये च जन्मभूम्यां जननस्थाने अभिजनः । अभिजनः कुले ख्यातो जन्मभूम्यां कुलध्वजे इति विश्वः ॥१०७॥ वर्षो ऽब्दः। अर्ची रशिमः ब्रीहिभेदश्चैते हायनाः। जहात्युदकमिति हायनो व्रीहिः। जहाति भावानिति हायनो वर्षम् । जिहीते प्राप्नोतीति वा हश्च वीहिकालयोरित्यनेन ण्युट अनादेशः । प्रहादपुत्रेऽपि विरोचनः । कल्मषे ऽपि क्लीबं वृजिनम् । “वृजिनः क्लेशे वृजिनं भुग्ने ऽधे रक्तचर्मणीति हैमः ।" अर्के सुरशिल्पिनि च विश्वकर्मा ॥१०८॥ अततीत्यात्मा । अत सातत्यगमने । मनिन् प्रत्ययः । वर्म देहः । आत्मा कलेवरे यत्ने स्वभावे पर. मात्मनि । चित्ते धृतौ च वुद्धौ च परव्यावर्तने ऽपि चेति धरणिः । शक्र इंद्रः । घातुकश्चासौ मत्तेभश्चेति कर्मधारयः । तथा वर्षकश्चासावब्दश्चेति । घनाघन इति चतुरक्षरं नाम । शक्रघातुकमत्तेभवर्षकाब्दा घनाघनाः इति क्वचित्पाठः ॥१०९।। मूर्तिगुणे काठिन्ये मेघे च घनः पुंसि । मूर्ते कठिने निरंतरे सांद्रे च त्रिषु । “धनं स्यात्कांस्यतालादिवाद्यमध्यमनृत्ययोः । ना मुस्ताब्ध्योपदार्थेषु विस्तारे लोहमुद्गरे । त्रिषु सांद्रे दृढे चेति मेदिनी ।" अर्थपशुकुलगुणादिभिर्यो दर्पस्तस्मिन् ज्ञाने प्रणये हिंसायां चाभिमानः ॥ ११०॥ प्रभौ नृपे च पत्यौ वा मृगांकादौ राज For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy