SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१० सटीकामरकोशस्य नानार्थवर्गः वधूर्जाया स्नुषा स्त्री च सुधा लेपो ऽमृतं स्नुही ॥१०॥ संधा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्टहा ॥ मधु मद्ये पुष्परसे क्षौद्रे ऽप्यंधं तमस्यपि ॥ १०२॥ अतस्त्रिषु समुन्नधौ पंडितमन्यगर्वितौ ।। ब्रह्मबंधुरधिक्षेपे निर्देशे ऽथावलंबितः॥१०३॥ अविदूरो ऽप्यवष्टब्धःप्रसिद्धौ ख्यातभूषितौ ॥ इति धांताः।। सूर्यवन्ही चित्रभानू भानू रश्मिदिवाकरौ ।। १०४॥ भूतात्मानौ धातृदेही मूर्खनीचौ पृथग्जनौ ॥ ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ ॥ १०५॥ तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ ॥ देवालयादि येन लिप्यते सः लेपचूर्णविशेषः । सुधा प्रासादभाक् द्रव्यं सुधा विद्युत्सुधामृतम् । सुधाहिभोजनं ज्ञेयं सुधा धात्री सुधा स्नहीति मंजरी ॥१०१॥ प्रतिज्ञा स्वीकारः । तत्र यथा सत्यसंधः । संप्रत्यय आदरः । स्पृहा कांक्षा तत्र श्रद्धेति । क्षौद्रे माक्षिके । दैत्यचैत्रवसंतेषु दुभेदे च पुमान् मधुः । अक्षिहीनेऽप्यंधशब्दः । अंधस्तु तिमिरे क्लीबं चक्षु ने ऽभिधेयवदिति विश्वः ॥१०२॥ अतः परे धांतवर्गपर्यंतास्त्रिषु । पंडितमात्मानं मन्यते पंडितंमन्यः । अधिक्षेपे निंदाप्रयोगे यथा । हे ब्रह्मबंधो दुष्टोऽसीति । ब्रह्मबंधुरधिक्षेपे निर्देशे च द्विजन्मनामिति विश्वः ॥ १०३ ॥ अवलंबितः आश्रितः । अविदूरः सन्निहितः । उभाववष्टब्धौ । ष्टभि प्रतिस्तंभे स्तंभु रोधने वा । अवाचालंबनाविदूर्ययोरिति षत्वे अवष्टब्ध शब्दः साधुः । अपिशब्दाबद्धो ऽपि ॥ इति धांताः ॥ अथ नांतानाह । चित्रा भानवो रश्मयो ययोस्तौ । लेशे ऽपि गंधः संबाधो गुह्यसंकटयोर्द्वयोः । बाधा निषेधे दुःखे च ज्ञातृचांद्रिसुरा बुधाः ॥ १०४ ॥ धाता च देहश्च । नीचो हीनजातिः । पृथग्जन इति चतुरक्षरम् । “ पृथकार्यो जनः पृथग्जनः ।" ग्रावा प्रस्तारे जलदे गि. राविति विश्वः। “ पत्री श्येने रथे कांडे खगगुरथिकाद्रिष्विति विश्वः" ॥ १०५॥ वहीं मयूरः । " शिखी त्वग्नौ वृक्षे केतुप्रहे शरे । चूडावति बलीवर्दे मयूरे कुकुटे हय इति हैमः ।" लिप्सा वांछा । उपग्रह अनुकूलनम् । उभौ प्रतियत्नौ । “प्रतिय For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy