SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. बंधकं व्यसनं चेतःपीडाधिष्ठानमाधयः॥ स्युः समर्थनवीवाकनियमाच समाधयः॥ ९७॥ दोषोत्पादे ऽनुबंधः स्यात्प्रकृत्यादिविनश्वरे ॥ मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥९८॥ विधुर्विष्णौ चंद्रमसि परिच्छेदे बिले ऽवधिः॥ विधिविधाने देवे ऽपि प्रणिधिः प्रार्थने चरे ॥९९॥ बुधवृद्धौ पंडितेऽपि स्कंधः समुदये ऽपि च ॥ देशे नदविशेषे ऽब्धौ सिंधुर्ना सरिति स्त्रियाम् ॥ १०॥ विधा विधौ प्रकारे च साधू रम्ये ऽपि च त्रिषु ॥ ऋणमोचनपर्यंत विश्वासार्थ यद्वस्तु स्थाप्यते तद्वंधकम् । गाहाण इति लौकिकभाषायां प्रसिद्धम् । व्यसनमापत्तिः । चेतःपीडा मानसी व्यथा । अधिष्ठानमध्यासनं एते आधयः । समर्थनं चोद्यपरिहारः । नीवाको वचनाभावः । नियमों. ऽगीकारः एते समाधयः ॥ ९७॥ दोषोत्पादनं दोषोत्पादस्तत्र प्रकृत्यादिषु प्रकृतिप्रत्ययागमादेशेषु इक्यण्सुडादिषु यन्नश्वरमित्संज्ञालोपाभ्यामदर्शनशील. मक्षरं तत्र । यो मुख्यं पित्रादिकमनुयाति तस्मिन् शिशौ । प्रकृतस्य प्रक्रांतस्य पदनिवृत्त्यभावः तत्रैतेषु अनुबंधः ॥ ९८॥ " विधुः शशांके कर्पूरे हृषीकेशे च राक्षस इति विश्वः ।" परिच्छेदे सीम्नि । बिले गर्ने । काले ऽपि अवधिः । विधाने कर्तव्ये दैवे प्राक्तनशुभाशुभकर्मणि ब्रह्मण्यपि विधिः ॥ ९९ ॥ बुधवृद्धौ धांती पंडिते ऽपि वर्तेते । अपिशब्दाद्धः सौम्ये । वृद्धः स्थविरे । समुदये समूहे । यथा । अनलस्कंधवपुष इति । अपिशब्दात्कांडे नृपें उसे च । " स्कंधः प्रकांडे कायें इसे विज्ञानादिषु पंचसु । नृपे समूहे व्यूहे चेति हैमः ।" देशभेदे ऽब्धौ समुद्रे सिंधुशब्दः पुंसि । “ इभदाने च ।" नदीसामान्ये तु स्त्रीलिंगे । सिंधुः समुद्रे नद्यां च नदे देशेभदानयोरिति विश्वः ॥ १०० ॥ विधौ विधाने । प्रकारे विधाशब्दः स्यात् । यथा द्विविधं किंविधमित्यादि । अपिशब्दाद्वार्धषिके सज्जने “ चारावपि " साधुः । जाया भार्या स्नुषा पुत्रस्य पत्नी तत्र स्त्रीमात्रे च वधूः । जायास्नुषयोः पार्थक्यं वर्तत इति द्योतनाय पृथक् तद्रहणम् । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy