SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३०८ सटीकामरकोशस्य नानार्थवर्गः स्त्री संविज्ञानसंभाषाक्रियाकाराजिनामसु॥ धर्मे रहस्युपनिषत्स्याहतौ वत्सरे शरत् ॥ ९२ ॥ पदं व्यवसितत्राणस्थानलक्ष्मांघ्रिवस्तुषु॥ गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम् ॥ ९३ ॥ त्रिविष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ ॥ मूढाल्पापटुनिर्भाग्या मंदाः स्युदौं तु शारदौ ॥ ९४ ॥ प्रत्ययाप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ ॥ इति दांताः॥ व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः ॥ ९५ ॥ पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ॥ परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ॥ ९६ ॥ नियमः आजियुद्धं । नाम संज्ञा । एतेषु संकेते च स्त्रीलिंगं संविदिति नाम । “संवि. संभाषणे ज्ञाने संयमे नाम्नि तोषणे । क्रियाकारे प्रतिज्ञायां संकेताचारयोरपीति हैमः। श्री तु संविदुपनिषच्छरद्भिः संबध्यते । रहस्येकांते । वेदांते ऽप्युपनिषत्" ॥१२॥ व्यवसितिर्व्यवसायः। “ पदं स्थाने विभक्त्यंते शब्दे वाक्यैकवस्तुनोः । त्राणे पादे पादचिन्हे व्यवसायापदेशयोरिति हैमः ।" सेविते गोभिरेव सेविते देशे माने खुरप्रमाणे गोष्पदं । गोष्पदं सेवितासेवितप्रमाणेष्विति सूत्रेण सुडागमः सस्य षत्वं च निपात्यते । प्रतिष्ठा स्थानम् । कृत्यं कार्य । प्रतिष्ठाकृत्ये आस्पदशब्दो वर्तते । आस्पदं प्रतिष्ठायामिति निपातनात् सुडागमः ॥९३ ॥ अतः परं वर्गसमाप्तेर्दातास्त्रिषु । इष्टो मनोहरः । उभौ स्वादू । स्वादुमनोज्ञे मिष्टे चेति विश्वः । अतीक्ष्णो ऽतिग्मः । कोमलो ऽकठिनः । उभौ मृदू । मृदुः स्यात्कोमले स्वरे इति विश्वः । मूढो मूर्खः । अल्पे यथा । मंदोदरी । अपटुरतीक्ष्णः निर्भाग्यो हीनभाग्यः । एते मंदाः ॥ ९४ ॥ प्रत्यग्रो ऽभिनवः । अप्रतिभो ऽप्रगल्भः । द्वाविमा शारदौ । “प्रगल्भो धृष्टः विशारदो बुधे धृष्टः इति हैमः ।" इति दाताः ॥ अथ धांतानाह । प्रसारितभुजद्वयकुंडलं व्यामः। वटो वृक्षभेदः। द्वयं न्यग्रोधाख्यम् । कायो देहः । उन्नतिरुच्छायः ॥९५॥परित आन्हियते ऽसौ पर्याहारो ध्यानादिः मार्गः पंथाः एतौ विवधसंज्ञौ च भारेऽप्येतौ । यज्ञियतरोः पलाशादेः शाखायां समिधि तत्र उपसूर्य के सूर्यसमीपमंडले परिवेषाख्ये च परिधिः॥९६॥ उत्तमर्णगृहे For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy