SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३०७ तृतीयं कांडम्. आस्थानीयत्नयोरास्था प्रस्थो ऽस्त्री सानुमानयोः॥ ८७॥ "शास्त्रद्रविणयोपॅथः संस्थाधारे स्थितौ मृतौ” ॥ इति थांताः॥ अभिप्रायवशौ छंदावब्दो जीमूतवत्सरौ ॥ अपवादौ तु निंदाशे दायादौ सुतबांधवौ ॥ ८८॥ पादा रश्म्यंघ्रितुर्याशाश्चंद्राग्न्यस्तिमोनुदः॥ निर्वादो जनवादे ऽपि शादो जंबालशष्पयोः॥ ८९ ॥ आरावे रुदिते त्राताकंदो दारुणे रणे ॥ स्यात्प्रसादो ऽनुरागे ऽपि सूदः स्यादयंजने ऽपि च ॥ ९ ॥ गोष्ठाध्यक्षे ऽपि गोविंदो हर्षे ऽप्यामोदवन्मदः॥ प्राधान्ये राजलिंगे च वृषांगे ककुदो ऽस्त्रियाम् ॥ ९१ ॥ दशमीस्थो नष्टबीजे स्थविरे चेति विश्वः । पदवी मार्गः अपिशब्दात् पंक्तिरपि । आस्थानी सभा । यत्नः प्रयत्नः । सानु पर्वताग्रम् । मानं परिमाणभेदः ॥ ८७॥ " शास्त्रद्रविणयोप॑थः संस्थाधारे स्थितौ मृतावित्यन्यत् प्रक्षेपः पाठः ।" इति थांताः ॥ अथ दांतानाह ॥ अभिप्राय आशयः । वशोऽधीनः । “छंदो वशेऽभिप्राये च दृषत्पाषाणमात्रके । निष्पेषणार्थपट्टे ऽपीति हैमः ।" जीमूतो मेघः । वत्सरो वर्षम् । “ अब्दः संवत्सरे मेधे गिरिभेदे च मुस्तक इति विश्वः ।" निंदा गीं । आज्ञा शासनं तत्रापवादः । “ अववाद इत्यपि पाठः।" पुत्रो ज्ञातिश्च दायादौ ॥ ८८ ॥ रश्मिः किरणः । तुर्यांशश्चतुर्थभागः । पादो मूलास्रतुर्यांशांघ्रिषु प्रत्यंतपर्वते इति हैमः । तमो नुदतीति तमोनुत् । जनवादे लोकापवादे अपिशब्दान्निर्णीतवादे निर्वादः । निर्वादः स्यात्परीवादपरिनिश्चितवादयोरिति विश्वः । जंबाले कर्दमे । शष्पे बालतृणे ॥८९ ॥ आरावे आर्तध्वनौ । त्रातरि रक्षके दारुणे रणे भीषणे युद्धे च आक्रंदः । अनुरागे ऽनुग्रहे । प्रसन्नतायां काव्यगुणे च प्रसादः) "प्रसादो ऽनुग्रहे काव्यगुणस्वास्थ्यप्रसत्तिष्विति मेदिनी।" व्यंजने तेमने सूपकारे च सूदः ॥ ९० ॥ गोष्ठं गोस्थानं तस्याध्यक्षे गोपालादौ वृहस्पतौ कृष्णे ऽपि गोविंदः । दकारांत आमोदशब्दो यथा हर्षे वर्तते अपिशब्दादतिनिहरि गंधे च तथा मदो ऽपि हर्षे । अपिशब्दाद्गर्वगजदानरेतःसु चेत्यर्थः । प्रधानमेव प्राधान्यम् । राजलिंगे छत्रादौ वृषांगे वृषावयवे ककुदः॥९१॥ संभाषा संभाषणम् । क्रियाकारः कर्म For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy